रामायणम्

सप्तदशः सर्गः 1.17

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः । उवाच देवताः सर्वाः स्वयंभूर्भगवानिदम् ॥१॥

सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः । विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः ॥२॥

मायाविदश्च शूरांश्च वायुवेगसमान् जवे । नयज्ञान् बुद्धिसंपन्नान् विष्णुतुल्यपराक्रमान् ॥३॥

असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् । सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव ॥४॥

अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च । यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥५॥

किंनरीणां च गात्रेषु वानरीणां तनूषु च । सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥६॥

पूर्वमेव मया सृष्टो जांबवानृक्षपुङ्गवः । जृंभमाणस्य सहसा मम वक्रादजायत ॥७॥

ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् । जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥८॥

ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः । चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥९॥

वानरेन्द्रं महेद्राभमिन्द्रो वालिनमात्मजम् । सुग्रीवं जनयामास तपनस्तपतां वरः ॥१०॥

बृहस्पतिस्त्वजनयत्तारं नाम महाकपिम् । सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥११॥

धनदस्य सुतः श्रीमान् वानरो गन्धमादनः । विश्वकर्मा त्वजनयन्नलं नाम महाकपिम् ॥१२॥

1.17.12 #17eafd998ab6 timing uncertain

पावकस्य सुतः श्रीमान्नीलोऽग्नि सदृशप्रभः । तेजसा यशसा वीर्यादत्यरिच्यत वानरान् ॥१३॥

रूपद्रविणसंपन्नावश्विनौ रूपसंमतौ । मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥१४॥

वरुणो जनयामास सुषेणं नाम वानरम् । शरभं जनयामास पर्जन्यस्तु महाबलम् ॥१५॥

मारुतस्यौरसः श्रीमान् हनुमान्नाम वानरः । वज्रसंहननोपेतो वैनतेयसमो जवे ॥१६॥

सर्ववानरमुख्येषु बुद्धिमान् बलवानपि । ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः ॥१७॥

अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः । ते गजाचलसंकाशा वपुष्मंतो महाबलाः ॥१८॥

ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे । यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥१९॥

1.17.19 #a762897dbe01 timing uncertain

अजायत समं तेन तस्य तस्य पृथक् पृथक् । गोलांगूलीषु चोत्पन्नाः केचिदुन्नतविक्रमाः ॥२०॥

ऋक्षीषु च तथा जाता वानराः किंनरीषु च । देवा महर्षिगन्धर्वास्तार्क्ष्या यक्षा यशस्विनः ॥२१॥

नागाः किंपुरुषाश्चैव सिद्धविद्याधरोरगाः । बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ॥२२॥

चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः । वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥२३॥

1.17.23 #1b3ff92e5d45 timing uncertain

अप्सरस्सु च मुख्यासु तदा विद्यधरीषु च । नागकन्यासु च तथा गन्धर्वीणां तनूषु च । कामरूपबलोपेता यथाकामं विचारिणः ॥२४॥

सिंहशार्दूलसदृशा दर्पेण च बलेन च । शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ॥२५॥

नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः । विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ॥२६॥

क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् । दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम् ॥२७॥

नभस्थलं विशेयुश्च गृह्णीयुरपि तोयदान् । गृह्णीयुरपि मातंगान् मत्तान् प्रव्रजतो वने ॥२८॥

नर्दमानाश्च नादेन पातयेयुर्विहंगमान् । ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ॥२९॥

शतं शतसहस्राणि यूथपानां महात्मनाम् । ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ॥३०॥

बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन् । अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ॥३१॥

अन्ये नानाविधान् शैलान् काननानि च भेजिरे । सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥३२॥

भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः । नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥३३॥

ते तार्क्ष्यबलसंपन्नाः सर्वे युद्धविशारदाः । विचरन्तोऽर्दयन् दर्पात् सिंहव्याघ्रमहोरगान् ॥३४॥

महाबलो महाबाहुर्वाली विपुलविक्रमः । जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥३५॥

तैरियं पृथिवी शूरैः सपर्वतवनार्णवा । कीर्णा विविधसंस्थानैर्नानाव्यंजनलक्षणैः ॥३६॥

तैर्मेघबृन्दाचलकूटसंनिभैः महाबलैर्वानरयूथपाधिपैः । बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः ॥३७॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥

Listen to the sarga
0:00