रामायणम्

विंशः सर्गः 1.20

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहूर्तमिव निस्सज्ञः सज्ञावानिदमब्रवीत् ॥१॥

ऊनषोडशवर्षो मे रामो राजीवलोचनः । न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥२॥

इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः । अनया संवृतो गत्वा योद्धाहं तैर्निशाचरैः ॥३॥

इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः । योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥४॥

अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि । यावत् प्राणान् धरिष्यामि तावद्योत्स्ये निशाचरैः ॥५॥

निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता । अहं तत्रागमिष्यामि न रामं नेतुमर्हसि ॥६॥

बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् । न चास्त्रबलसंयुक्तो न च युद्धविशारदः ॥७॥

न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम् । विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ॥८॥

जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि । यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत ॥९॥

चतुरंगसमायुक्तं मया सह च तं नय । षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ॥१०॥

कृच्छ्रेणोत्पादितश्चायं न रामं नेतुमर्हसि । चतुर्णामात्मजानां हि प्रीतिः परमिका मम ॥११॥

ज्येष्ठे धर्मप्रधाने च न रामं नेतुमर्हसि । किं वीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते ॥१२॥

कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव । कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ॥१३॥

मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम् । सर्वं मे शंस भगवन् कथं तेषां मया रणे ॥१४॥

स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः । तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥१५॥

पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः । स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ॥१६॥

महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः । श्रूयते च महाराजा रावणो राक्षसाधिपः ॥१७॥

साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः । यदा न खलु यज्ञस्य विघ्नकर्ता महाबलः ॥१८॥

तेन संचोदितौ तौ तु राक्षसौ च महाबलौ । मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥१९॥

इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा । न हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः ॥२०॥

स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके । मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥२१॥

देवदानवगंधर्वा यक्षाः पतगपन्नगाः| न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥२२॥

स तु वीर्यवतां वीर्यमादत्ते युधि रावणः । तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः ॥२३॥

सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः । कथमप्यमरप्रख्यं संग्रामाणामकोविदम् ॥२४॥

बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम् । अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥२५॥

यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् । मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥२६॥

तयोरन्यतरं योद्धुं यास्यामि ससुहृद्गणः । अन्यथा त्वनुनेष्यामि भवन्तं सह बान्धवैः ॥२७॥

इति नरपतिजल्पनाद्द्विजेन्द्रं कुशिकसुतं सुमहान् विवेश मन्युः । सुहुत इव मखेऽग्निराज्यसिक्तः समभवदुज्वलितो महर्षिवह्निः ॥२८॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे विंशः सर्गः ॥

Listen to the sarga
0:00