रामायणम्

द्वाविंशः सर्गः 1.22

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम् । प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥१॥

कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च । पुरोधसा वसिष्ठेन मङ्गलैरभिमंत्रितम् ॥२॥

सपुत्रं मूर्ध्न्युपाघ्राय राजा दशरथस्तदा । ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥३॥

ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा । विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥४॥

पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिःस्वनैः । शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥५॥

विश्वामित्रो ययावग्रे ततो रामो महायशाः । काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥६॥

कलापिनौ धनुष्पाणी शोभयानौ दिशो दश । विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ । अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ ॥७॥

तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ । बद्धगोधांगुलित्राणौ खड्गवन्तौ महाद्युती ॥८॥

कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ । अनुयातौ श्रिया दीप्तौ शोभयेतामनिन्दितौ ॥९॥

स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी । अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ॥१०॥

रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत । गृहाण वत्स सलिलं मा भूत् कालस्य पर्ययः ॥११॥

मंत्रग्रामं गृहाण त्वं बलामतिबलां तथा । न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥१२॥

न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः । न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ॥१३॥

त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव । बलामतिबलां चैव पठतस्तात राघव ॥१४॥

न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये । नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥१५॥

एतद्विद्याद्वये लब्धे न भवेत्सदृशस्तव । बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥१६॥

क्षुत्पिपासे न ते राम भविष्येते नरोत्तम । बलामतिबलां चैव पठतस्तात राघव ॥१७॥

गृहाण सर्वलोकस्य गुप्तये रघुनन्दन । विद्याद्वयमधीयाने यशश्चाप्यतुलं भुवि । पितामहसुते ह्येते विद्ये तेजःसमन्विते ॥१८॥

प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक । कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ॥१९॥

तपसा संभृते चैते बहुरूपे भविष्यतः । ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ॥२०॥

प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः । विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ॥२१॥

सहस्ररश्मिर्भगवान् शरदीव दिवाकरः । गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे । ऊषुस्तां रजनीं तत्र सरय्वाः सुसुखं त्रयः ॥२२॥

दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते सहोषिताभ्याम् । कुशिकसुतवचोऽनुलालिताभ्यां । सुखमिव सा विबभौ विभावरी च ॥२३॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्वाविंशः सर्गः ॥

Listen to the sarga
0:00