रामायणम्

पंचविंशः सर्गः 1.25

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् । श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥१॥

अल्पवीर्या यदा यक्षी श्रूयते मुनिपुङ्गव । कथं नागसहस्रस्य धारयत्यबला बलम् ॥२॥

इत्युक्तं वचनं श्रुत्वा राघवस्यामितोजसा । हर्षयन् श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम् ॥३॥

विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्कटा । वरदानकृतं वीर्यं धारयत्यबला बलम् ॥४॥

पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् । अनपत्यः शुभाचारः स च तेपे महत्तपः ॥५॥

पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा । कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥६॥

ददौ नागसहस्रस्य बलं चास्याः पितामहः । न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ॥७॥

तां तु बालां विवर्धन्तीं रूपयौवनशालिनीम् । जंभपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ॥८॥

कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत । मारीचं नाम दुर्धर्षं यः शापाद्राक्षसोऽभवत् ॥९॥

सुन्दे तु निहते राम सागस्त्यमृषिसत्तमम् । ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ॥१०॥

भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत । आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ॥११॥

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः । अगस्त्यः परमामर्षस्ताटकामपि शप्तवान् ॥१२॥

पुरुषादी महायक्षी विरूपा विकृतानना । इदं रूपं विहायाशु दारुणं रूपमस्तु ते ॥१३॥

सैषा शापकृतामर्षा ताटका क्रोधमूर्च्छिता । देशमुत्सादयत्येनमगस्त्याचरितं शुभम् ॥१४॥

एनां राघवदुर्वृत्तां यक्षीं परमदारुणाम् । गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥१५॥

न ह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् । निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥१६॥

न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम । चातुर्वर्ण्यहितार्थाय कर्तव्यम् राजसूनुना ॥१७॥

नृशंसमनृशंसं वा प्रजारक्षणकारणात् । पातकं वा सदोषं वा कर्तव्यं रक्षता सदा ॥१८॥

राज्यभारनियुक्तानामेष धर्मः सनातनः । अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते ॥१९॥

श्रूयते हि पुरा शक्रो विरोचनसुतां नृप । पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥२०॥

विष्णुना च पुरा राम भृगुपत्नी पतिव्रता । अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥२१॥

एतैरन्यैश्च बहुभी राजपुत्रैर्महात्मभिः । अधर्मसहिता नार्यो हताः पुरुषसत्तमैः । तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ॥२२॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचविंशः सर्गः ॥

Listen to the sarga
0:00