रामायणम्

त्रयोदशः सर्गः 2.13

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अतदर्हं महाराजं शयानम् सयानमतथोचितम् । ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम् ॥१॥

अनर्थरूपा सिद्धार्था ह्यभीता भयदर्शिनी । पुनराकारयामास तमेव वरमङ्गना ॥२॥

त्वं कत्थसे महाराज सत्यवादी दृढव्रतः । मम चेदं वरं कस्माद्विधारयितुमिच्छसि ॥३॥

एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा । प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव ॥४॥

मृते मयि गते रामे वनं मनुजपुंगवे । हन्त अनार्ये मम अमित्रे सकाम सुखिनी भव ॥५॥

स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरहम् । प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥६॥

कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया । यदि सत्यं ब्रवीम्येतत्तस्त्यं भविष्यति ॥७॥

अपुत्रेण मया पुत्रः श्रमेण महता महान् । रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥८॥

शूरश्च कृतविद्यश्च जितक्रोधः क्षमापरः । कथं कमलपत्राक्षो मया रामो विवास्यते ॥९॥

कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् । अभिराममहं रामं प्रेषयिष्यामि दण्डकान् ॥१०॥

सुखानामुचितस्यैव दुःखैरनुचितस्य च । दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥११॥

यदि दुःखमकृत्वाद्य मम संक्रमणं भवेत् । अदुःखार्हस्य रामस्य ततः सुखमवाप्नुयाम् ॥१२॥

नृशंसे पापसंकल्पे रामं स्त्यपराक्रमम् । किं विप्रियेण कैकेयि प्रियं योजयसे मम ॥१३॥

अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे । तथा विलपतस्तस्य परिभ्रमित चेतसः ॥१४॥

अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत । सा त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता ॥१५॥

राज्ञो विलपमानस्य न व्यभासत शर्वरी । तथैवोष्णम् विनिःश्वस्य वृद्धो दसरथो नृपः ॥१६॥

विललापार्तवद्दुःखं गगनासक्तलोचनः । प्रभातं त्वयेच्छामि निशे नक्षत्रभूषणे ॥१७॥

क्रियतां मे दया भद्रे मयायं रचितोऽञ्जलिः । अथवा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥१८॥

नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत् । एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः ॥१९॥

प्रसादयामास पुनः कैकेयीं चेदमब्रवीत् । साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः ॥२०॥

प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः । शून्ये न खलु सुश्रोणि मयेदं समुदाहृतम् ॥२१॥

कुरु साधु प्रसादं मे बाले सहृदया ह्यसि । प्रसीद देवि रामो मे त्वद्धत्तं राज्यमव्ययम् ॥२२॥

लभतामसितापाङ्गे यशः परमवाप्नुहि । मम रामस्य लोकस्य गुरूणां भरतस्य च ॥२३॥

प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे । विशुद्धभावस्य सु ुष्टभावा । दीनस्य ताम्राश्रुकलस्य राज्ञः । श्रुत्वा विचित्रं करुणं विलापं । भर्तुर्नृशंसा न चकार वाक्यम् ॥२४॥

ततः स राजा पुनरेव मूर्छितः । प्रियामतुष्टां प्रतिकूलभाषिणीम् । समीक्ष्य पुत्रस्य विवासनम् प्रति । क्षितौ विसंज्ञो निपपात दुःखितः ॥२५॥

इतीव राज्ञो व्यथितस्य सा निशा । जगाम घोरं श्वसतो मनस्विनः । विबोध्यमानः प्रतिबोधनं तदा । निवारयामास स राजसत्तमः ॥२६॥

इत्यार्शे स्रीमद्रामायने आदिकाव्ये अयोध्यकान्दे त्रयोदशः सर्गः ॥

Listen to the sarga
0:00