रामायणम्

विंशः सर्गः 2.20

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तस्मिंस्तु पुरुष्व्याघ्रे निष्क्रामति कृताञ्जलौ । आर्तशच्दो महान् जज्ञे स्त्रीणाम न्तःपुरे तदा ॥१॥

कृत्येष्वचोदितः पित्रा सर्वस्यान्तः पुरस्य च । गतिर्यः शरणम् चासीत् स रामोऽद्य प्रवत्स्यति ॥२॥

कौसल्यायाम् यथा युक्तो जनन्याम् वर्तते सदा । तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥३॥

न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् । कृद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥४॥

अभुद्धिर्बत नो राजा जीवलोकम् चरत्ययम् । यो गतिम् सर्वभूतानाम् परित्यजति राघवम् ॥५॥

इति सर्वा महिष्यस्ता विवत्सा इव धेनवः । पतिमाचुक्रुशुश्चैव सस्वरम् चापि चुक्रुशुः ॥६॥

स हि चान्तः पुरे घोरमार्तशब्धम् महीपतिः । पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥७॥

रामः तु भृशम् आयस्तः निह्श्वसन्न् इव कुन्जरः । जगाम सहितः भ्रात्रा मातुर् अन्तः पुरम् वशी ॥८॥

सो अपश्यत् पुरुषम् तत्र वृद्धम् परम पूजितम् । उपविष्टम् गृह द्वारि तिष्ठतः च अपरान् बहून् ॥९॥

दृष्ट्वै तु तदा रामं ते सर्वे सहसोत्थिताः । जयेन जयताम् श्रेष्ठम् वर्धयन्ति स्म राघवम् ॥१०॥

प्रविश्य प्रथमाम् कक्ष्याम् द्वितीयायाम् ददर्श सः । ब्राह्मणान् वेद सम्पन्नान् वृद्धान् राज्ञा अभिसत्कृतान् ॥११॥

प्रणम्य रामः तान् वृद्धांस् तृतीयायाम् ददर्श सः । स्त्रियो वृद्धाः च बालाः च द्वार रक्षण तत्पराः ॥१२॥

वर्धयित्वा प्रहृष्टाः ताः प्रविश्य च गृहम् स्त्रियः । न्यवेदयन्त त्वरिता राम मातुः प्रियम् तदा ॥१३॥

कौसल्या अपि तदा देवी रात्रिम् स्थित्वा समाहिता । प्रभाते तु अकरोत् पूजाम् विष्णोह् पुत्र हित एषिणी ॥१४॥

सा क्षौम वसना हृष्टा नित्यम् व्रत परायणा । अग्निम् जुहोति स्म तदा मन्त्रवत् कृत मन्गला ॥१५॥

प्रविश्य च तदा रामः मातुर् अन्तः पुरम् शुभम् । ददर्श मातरम् तत्र हावयन्तीम् हुत अशनम् ॥१६॥

देवकार्यनिमित्तम् च तत्रापश्यत् समुद्यतम्| दध्यक्षतम् घृतम् चैव मोदकान् हविषस्तदा ॥१७॥

लाजान् माल्यानि शुक्लानि पायसम् कृसरम् तथा । समिधः पूर्णकुम्भांश्छ ददर्श रघुनंदनः ॥१८॥

ताम् शुक्लक्षौमसम्वीताम् व्रतयोगेन कर्शिताम् । तर्पयन्तीम् ददर्शाद्भिः देवताम् देववर्णिनीम् ॥१९॥

सा चिरस्य आत्मजम् दृष्ट्वा मातृ नन्दनम् आगतम् । अभिचक्राम सम्हृष्टा किशोरम् वडवा यथा ॥२०॥

स मातरमभिक्रान्तामुपसम्गृह्य राघवः । परिष्वक्तश्च बाहुभ्यामुपाग्रातश्च मूर्धनि ॥२१॥

तम् उवाच दुराधर्षम् राघवम् सुतम् आत्मनः । कौसल्या पुत्र वात्सल्यात् इदम् प्रिय हितम् वचः ॥२२॥

वृद्धानाम् धर्म शीलानाम् राजर्षीणाम् महात्मनाम् । प्राप्नुहि आयुः च कीर्तिम् च धर्मम् च उपहितम् कुले ॥२३॥

सत्य प्रतिज्ञम् पितरम् राजानम् पश्य राघव । अद्य एव हि त्वाम् धर्म आत्मा यौवराज्ये अभिषेक्ष्यति ॥२४॥

दत्तमासनमालभ्य भोजनेन निमन्त्रितः । मातरम् राघवः किंचित् प्रसार्य अन्जलिम् अब्रवीत् ॥२५॥

स स्वभाव विनीतः च गौरवाच् च तदा आनतः । प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥२६॥

देवि नूनम् न जानीषे महद् भयम् उपस्थितम् । इदम् तव च दुह्खाय वैदेह्या लक्ष्मणस्य च ॥२७॥

गमिष्ये दण्डकारण्यम् किमनेनासनेन मे । विष्टरासनयोग्यो हि कालोऽयम् मामुपस्थितः ॥२८॥

चतुर्दश हि वर्षाणि वत्स्यामि विजने वने । मधु मूल फलैः जीवन् हित्वा मुनिवद् आमिषम् ॥२९॥

भरताय महा राजो यौवराज्यम् प्रयच्चति । माम् पुनर् दण्डक अरण्यम् विवासयति तापसम् ॥३०॥

स ष्ट्चाअष्टौ च वर्षाणि वत्स्यामि विजने वने । आसेवमानो वन्यानि फलमूलैश्च चर्तयन् ॥३१॥

सा निकृत्तैव सालस्य यष्टिः परशुना वने । पपात सहसा देवी देवतेव दिवश्च्युता ॥३२॥

ताम् अदुह्ख उचिताम् दृष्ट्वा पतिताम् कदलीम् इव । रामः तु उत्थापयाम् आस मातरम् गत चेतसम् ॥३३॥

उपावृत्य उत्थिताम् दीनाम् वडवाम् इव वाहिताम् । पांशु गुण्ठित सर्व अग्नीम् विममर्श च पाणिना ॥३४॥

सा राघवम् उपासीनम् असुख आर्ता सुख उचिता । उवाच पुरुष व्याघ्रम् उपशृण्वति लक्ष्मणे ॥३५॥

यदि पुत्र न जायेथा मम शोकाय राघव । न स्म दुह्खम् अतः भूयः पश्येयम् अहम् अप्रजा ॥३६॥

एकएव हि वन्ध्यायाः शोको भवति मानवः । अप्रजा अस्मि इति सम्तापो न हि अन्यः पुत्र विद्यते ॥३७॥

न दृष्ट पूर्वम् कल्याणम् सुखम् वा पति पौरुषे । अपि पुत्रे विपश्येयम् इति राम आस्थितम् मया ॥३८॥

सा बहूनि अमनोज्ञानि वाक्यानि हृदयच्चिदाम् । अहम् श्रोष्ये सपत्नीनाम् अवराणाम् वरा सती ॥३९॥

अतः दुह्खतरम् किम् नु प्रमदानाम् भविष्यति । त्वयि सम्निहिते अपि एवम् अहम् आसम् निराकृता ॥४०॥

त्वयि सन्निहितेऽप्येवमहमासं निराकृता । किम् पुनः प्रोषिते तात ध्रुवम् मरणम् एव मे ॥४१॥

अत्यन्तनिगृहीतास्मि भर्तुर्नित्य्मतन्त्रिता । परिवारेण कैकेय्या समा वाप्यथवाऽवरा ॥४२॥

यो हि माम् सेवते कश्चित् अथ वा अपि अनुवर्तते । कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो न अभिभाषते ॥४३॥

नित्यक्रोधतया तस्याः कथं नु खरवादि तत् । कैकेय्या वदनम् द्रष्टुम् पुत्र शक्ष्यामि दुर्गता ॥४४॥

दश सप्त च वर्षाणि तव जातस्य राघव । असितानि प्रकान्क्षन्त्या मया दुह्ख परिक्षयम् ॥४५॥

तदक्षयम् महाद्दुःखम् नोत्सहे सहितुम् चिरम् । विप्रकारम् सपत्नीनामेवम् जीर्णापि राघव ॥४६॥

अपश्यन्ती तव मुखम् परिपूर्णशशिप्रभम् । कृपणा वर्तयिष्यामि कथम् कृपणजीविकाम् ॥४७॥

उपवासैः च योगैः च बहुभिः च परिश्रमैः । दुह्खम् सम्वर्धितः मोघम् त्वम् हि दुर्गतया मया ॥४८॥

स्थिरम् तु हृदयम् मन्ये मम इदम् यन् न दीर्यते । प्रावृषि इव महा नद्याः स्पृष्टम् कूलम् नव अम्भसा ॥४९॥

मम एव नूनम् मरणम् न विद्यते । न च अवकाशो अस्ति यम क्षये मम । यद् अन्तको अद्य एव न माम् जिहीर्षति । प्रसह्य सिम्हो रुदतीम् मृगीम् इव ॥५०॥

स्थिरम् हि नूनम् हृदयम् मम आयसम् । न भिद्यते यद् भुवि न अवदीर्यते । अनेन दुःखेन च देहम् अर्पितम् । ध्रुवम् हि अकाले मरणम् न विद्यते ॥५१॥

इदम् तु दुःखम् यद् अनर्थकानि मे| व्रतानि दानानि च सम्यमाः च हि । तपः च तप्तम् यद् अपत्य कारणात् । सुनिष्फलम् बीजम् इव उप्तम् ऊषरे ॥५२॥

यदि हि अकाले मरणम् स्वया इच्चया । लभेत कश्चित् गुरु दुःख कर्शितः । गता अहम् अद्य एव परेत संसदम् । विना त्वया धेनुर् इव आत्मजेन वै ॥५३॥

अथापि किम् जीवित मद्य मे वृथा । त्वया विना च्न्द्रनिभाननप्रभ । अनुव्रजिष्यामि वनम् त्वयैव गौः । सुदुर्बला वत्समिवानुकाङ्क्षया ॥५४॥

भृशम् असुखम् अमर्षिता तदा । बहु विललाप समीक्ष्य राघवम् । व्यसनम् उपनिशाम्य सा महत् । सुतम् इव बद्धम् अवेक्ष्य किम्नरी ॥५५॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे विंशः सर्गः ॥

Listen to the sarga
0:00