रामायणम्

त्रिंशः सर्गः 2.29

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

एतत् तु वचनम् श्रुत्वा सीता रामस्य दुह्खिता । प्रसक्त अश्रु मुखी मन्दम् इदम् वचनम् अब्रवीत् ॥१॥

ये त्वया कीर्तिता दोषा वने वस्तव्यताम् प्रति । गुणान् इति एव तान् विद्धि तव स्नेह पुरः कृतान् ॥२॥

मृगाः सिम्हा गजाश्चैव शार्दूलाः शरभास्तथा । पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥३॥

अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव । रूपम् दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति ॥४॥

त्वया च सह गन्तव्यम् मया गुरु जन आज्ञया । त्वद् वियोगेन मे राम त्यक्तव्यम् इह जीवितम् ॥५॥

न च माम् त्वत् समीपस्थम् अपि शक्नोति राघव । सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा ॥६॥

पति हीना तु या नारी न सा शक्ष्यति जीवितुम् । कामम् एवम् विधम् राम त्वया मम विदर्शितम् ॥७॥

अथ च अपि महा प्राज्ञ ब्राह्मणानाम् मया श्रुतम् । पुरा पितृ गृहे सत्यम् वस्तव्यम् किल मे वने ॥८॥

लक्षणिभ्यो द्विजातिभ्यः श्रुत्वा अहम् वचनम् गृहे । वन वास कृत उत्साहा नित्यम् एव महा बल ॥९॥

आदेशो वन वासस्य प्राप्तव्यः स मया किल । सा त्वया सह तत्र अहम् यास्यामि प्रिय न अन्यथा ॥१०॥

कृत आदेशा भविष्यामि गमिष्यामि सह त्वया । कालः च अयम् समुत्पन्नः सत्य वाग् भवतु द्विजः ॥११॥

वन वासे हि जानामि दुह्खानि बहुधा किल । प्राप्यन्ते नियतम् वीर पुरुषैः अकृत आत्मभिः ॥१२॥

कन्यया च पितुर् गेहे वन वासः श्रुतः मया भिक्षिण्याः साधु वृत्ताया मम मातुर् इह अग्रतः ॥१३॥

प्रसादितः च वै पूर्वम् त्वम् वै बहु विधम् प्रभो । गमनम् वन वासस्य कान्क्षितम् हि सह त्वया ॥१४॥

कृत क्षणा अहम् भद्रम् ते गमनम् प्रति राघव । वन वासस्य शूरस्य चर्या हि मम रोचते ॥१५॥

शुद्ध आत्मन् प्रेम भावाद्द् हि भविष्यामि विकल्मषा । भर्तारम् अनुगच्चन्ती भर्ता हि मम दैवतम् ॥१६॥

प्रेत्य भावे अपि कल्याणः सम्गमः मे सह त्वया । श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानाम् यशस्विनाम् ॥१७॥

इह लोके च पितृभिर् या स्त्री यस्य महा मते । अद्भिर् दत्ता स्वधर्मेण प्रेत्य भावे अपि तस्य सा ॥१८॥

एवम् अस्मात् स्वकाम् नारीम् सुवृत्ताम् हि पति व्रताम् । न अभिरोचयसे नेतुम् त्वम् माम् केन इह हेतुना ॥१९॥

भक्ताम् पति व्रताम् दीनाम् माम् समाम् सुख दुह्खयोह् । नेतुम् अर्हसि काकुत्स्थ समान सुख दुह्खिनीम् ॥२०॥

यदि माम् दुह्खिताम् एवम् वनम् नेतुम् न च इच्चसि । विषम् अग्निम् जलम् वा अहम् आस्थास्ये मृत्यु कारणात् ॥२१॥

एवम् बहु विधम् तम् सा याचते गमनम् प्रति । न अनुमेने महा बाहुस् ताम् नेतुम् विजनम् वनम् ॥२२॥

एवम् उक्ता तु सा चिन्ताम् मैथिली समुपागता । स्नापयन्ती इव गाम् उष्णैः अश्रुभिर् नयन च्युतैः ॥२३॥

चिन्तयन्तीम् तथा ताम् तु निवर्तयितुम् आत्मवान् । ताम्रोष्ठीं स तदा सीताम् काकुत्स्थो बह्व् असान्त्वयत् ॥२४॥

इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एकोन त्रिंशः सर्गः ॥

Listen to the sarga
0:00