एवम् श्रुत्वा तु सम्वादम् लक्ष्मणः पूर्वमागतः । बाष्पपर्याकुलमुखः शोकम् सोढुमशक्नुवन् ॥१॥
त्रिंशः सर्गः 2.31
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स भ्रातुश्चरणौ गाढम् निपीड्य रघुनन्दनः । सीतामुवाचातियशाम् राघवम् च महाव्रतम् ॥२॥
यदि गन्तुम् कृता बुद्धिर्वनम् मृगगजायुतम् । अहम् त्वानुगमिष्यामि वनमद्रे धनुर्धरः ॥३॥
मया समेतोऽरण्यानि बहूनि विचरिष्यसि । पक्षिभिर्मृगयूथैश्च सम्घुष्टानि समन्ततः ॥४॥
न देवलोकाक्रमणम् नामरत्वमहम् वृणे । ऐश्वर्यम् वापि लोकानाम् कामये न त्वया विना ॥५॥
एवम् ब्रुवाणः सौमित्रिर्विनवासाय निश्चितः । रामेण बहुभिः सान्वैर्निषिद्धः पुनरब्रवीत् ॥६॥
अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् । किमिदानीम् पुनरिदम् क्रियते मे निवारणम् ॥७॥
यदर्थम् प्रतिषेधो मे क्रियते गन्तुमिच्छतः । एतदिच्छामि विज्ञातुम् संशयो हि ममानघ ॥८॥
ततः अब्रवीन् महा तेजा रामः लक्ष्मणम् अग्रतः । स्थितम् प्राग् गामिनम् वीरम् याचमानम् कृत अन्जलिम् ॥९॥
स्निग्धो धर्मरतो वीरस्सततम् सत्पथे स्थितः । प्रियः प्राणसमो वशो भ्राता चापि सखा च मे ॥१०॥
मया अद्य सह सौमित्रे त्वयि गच्चति तत् वनम् । को भरिष्यति कौसल्याम् सुमित्राम् वा यशस्विनीम् ॥११॥
अभिवर्षति कामैः यः पर्जन्यः पृथिवीम् इव । स काम पाश पर्यस्तः महा तेजा मही पतिः ॥१२॥
सा हि राज्यम् इदम् प्राप्य नृपस्य अश्व पतेः सुता । दुह्खितानाम् सपत्नीनाम् न करिष्यति शोभनम् ॥१३॥
न स्मरिष्यति कौसल्याम् सुमित्राम् च सुदुःखिताम् । भरतो राज्यमासाद्य कैकेय्याम् पर्यवस्थितः ॥१४॥
तामार्याम् स्वयमेवेह राजाऽनुग्रहणेन वा । सौमित्रे भर कौसल्या मुक्तमर्थमिमम् चर ॥१५॥
एवम् मम च ते भक्तिर्भविष्यति सुदर्शिता । धर्मज्ञ गुरुपूजायाम् धर्मश्चाप्यतुलो महान् ॥१६॥
एवम् कुरुष्व सौमित्रे मत्कृते रघुनन्दन । अस्माभिर्विप्रहीनाया मातुर्नो न भवेत्सुखम् ॥१७॥
एवम् उक्तः तु रामेण लक्ष्मणः श्लक्ष्णया गिरा । प्रत्युवाच तदा रामम् वाक्यज्ञो वाक्य कोविदम् ॥१८॥
तव एव तेजसा वीर भरतः पूजयिष्यति । कौसल्याम् च सुमित्राम् च प्रयतः न अत्र संशयः ॥१९॥
कौसल्या बिभृयात् आर्या सहस्रम् अपि मद् विधान् । यस्याः सहस्रम् ग्रामाणाम् सम्प्राप्तम् उपजीवनम् ॥२०॥
तदात्मभरणे चैव मम मातुस्तथैव च । पर्याप्ता मद्विधानाम् च भरणाय यशस्विनी ॥२१॥
कुरुष्व मामनुचरम् वैधर्म्यम् नेह विद्यते । कृतार्थोऽहम् भविष्यामि तव चार्थः प्रकल्पते ॥२२॥
धनुर् आदाय सशरम् खनित्र पिटका धरः । अग्रतः ते गमिष्यामि पन्थानम् अनुदर्शयन् ॥२३॥
आहरिष्यामि ते नित्यम् मूलानि च फलानि च । वन्यानि यानि च अन्यानि स्वाहाराणि तपस्विनाम् ॥२४॥
भवांस् तु सह वैदेह्या गिरि सानुषु रंस्यते । अहम् सर्वम् करिष्यामि जाग्रतः स्वपतः च ते ॥२५॥
रामः तु अनेन वाक्येन सुप्रीतः प्रत्युवाच तम् । व्रज आपृच्चस्व सौमित्रे सर्वम् एव सुहृज् जनम् ॥२६॥
ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् । जनकस्य महा यज्ञे धनुषी रौद्र दर्शने ॥२७॥
अभेद्य कवचे दिव्ये तूणी च अक्षय सायकौ । आदित्य विमलौ च उभौ खड्गौ हेम परिष्कृतौ ॥२८॥
सत्कृत्य निहितम् सर्वम् एतत् आचार्य सद्मनि । स त्वम् आयुधम् आदाय क्षिप्रम् आव्रज लक्ष्मण ॥२९॥
स सुहृज् जनम् आमन्त्र्य वन वासाय निश्चितः । इष्क्वाकु गुरुम् आमन्त्र्य जग्राह आयुधम् उत्तमम् ॥३०॥
तत् दिव्यम् राज शार्दूलः सत्कृतम् माल्य भूषितम् । रामाय दर्शयाम् आस सौमित्रिः सर्वम् आयुधम् ॥३१॥
तम् उवाच आत्मवान् रामः प्रीत्या लक्ष्मणम् आगतम् । काले त्वम् आगतः सौम्य कान्क्षिते मम लक्ष्मण ॥३२॥
अहम् प्रदातुम् इच्चामि यद् इदम् मामकम् धनम् । ब्राह्मणेभ्यः तपस्विभ्यः त्वया सह परम्तप ॥३३॥
वसन्ति इह दृढम् भक्त्या गुरुषु द्विज सत्तमाः । तेषाम् अपि च मे भूयः सर्वेषाम् च उपजीविनाम् ॥३४॥
वसिष्ठ पुत्रम् तु सुयज्ञम् आर्यम् । त्वम् आनय आशु प्रवरम् द्विजानाम् । अभिप्रयास्यामि वनम् समस्तान् । अभ्यर्च्य शिष्टान् अपरान् द्विजातीन् ॥३५॥
इति वाल्मीकि रामायणे आदि काव्ये अयोध्य काण्डे एक त्रिंशः सर्गः ॥