गते पुरोहिते रामः स्नातो नियतमानसः । सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥१॥
षष्ठः सर्गः 2.6
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
प्रगृह्य शिरसा पात्रं हविषो विधिवत्तदा । महते दैवतायाज्यं जुहाव ज्वलितानले ॥२॥
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् । ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥३॥
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः । श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥४॥
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः । अलञ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥५॥
तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् । पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥६॥
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् । विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥७॥
तेषां पुण्याहघोषोऽध गम्भीरमधुरस्तदा । अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥८॥
कृतोपवासं तु तदा वैदेह्या सह राघवम् । अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥९॥
ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् । प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥१०॥
सिताभ्रशिखराभेषु देवतायतनेषु च । ङ्��चतुष्पधेषु रध्यासु चैत्येष्वट्टाल केषु च ॥११॥
नानापण्यसमृद्धेषु वणिजामापणेषु च । कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥१२॥
सभासु चैव सर्वासु वृक्षेष्वालक्षितेएशु च । ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥१३॥
नटनर्तकसंघानां गायकानां च गायताम् । मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥१४॥
रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः । रामाभिषेके संप्रप्ते चत्वरेषु गृहेषु च ॥१५॥
बाला अपि क्रीडमाना गृ हद्वारेषु संघशः । रामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः ॥१६॥
कृतपुष्पोपहारश्च धूपगन्धाधिवासितः । राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥१७॥
प्रकाशकरणार्धं च निशागमनशञ्कया । दीपवृक्षां स्तथाचक्रु रनुर्थ्यसु सर्वशः ॥१८॥
अलङ्कारं पुरस्त्यवं कृत्वा तत्पुरवासिनः । आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥१९॥
समेत्य संघशः सर्वे चत्वरेषु सभासु च । कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥२०॥
अहोओ महात्मा राजायमिक्ष्वाकुकुलनन्दनः । ज्ञात्वा यो वृद्ध मात्मानं रामं राज्येऽभिषेक्ष्यति ॥२१॥
सर्वेऽप्यनुगृहीताः स्म यन्नो रामो महीपतिः । चिराय भविता गोप्ता दृष्टलोकपरावरः ॥२२॥
आनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः । यधा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥२३॥
चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः । यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥२४॥
एवंविधं कथयतां पौराणां शुश्रुवुस्तदा । दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ताजानपदा नराः ॥२५॥
ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् । रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥२६॥
जनौघै स्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः । पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥२७॥
ततस्तदिन्द्रक्षयसन्निभं पुरं । दिदृक्षुभिर्जानपदै रुपागतैः । समन्ततः सस्वनमाकुलं बभौ । समुद्रयादोभि रिवार्णवोदकम् ॥२८॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्यकाण्डे षष्ठः सर्गः ॥