अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि । वन्दिनः पर्युपातिष्ठंस् तत् पार्थिव निवेशनम् ॥१॥
पञ्चषष्टितमः सर्गः 2.65
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
सूताः परमसंस्काराः मङ्गळाश्चोओत्तमश्रुताः । गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक् ॥२॥
राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् । प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥३॥
ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः । अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥४॥
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः । शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥५॥
व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः । आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥६॥
ततः शुचि समाचाराः पर्युपस्थान कोविदः । स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥७॥
हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः । आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥८॥
मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् । उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥९॥
सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् । सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥१०॥
ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् । तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥११॥
अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः । ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥१२॥
तथाप्युचितवृत्तास्ता विनयेन नयेन च । न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥१३॥
ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासंचलनादिषु । ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥१४॥
प्रतिस्रोतः तृण अग्राणाम् सदृशम् संचकम्पिरे । अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥१५॥
यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः । कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥१६॥
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते । निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥१७॥
न व्यराजत कौसल्या तारेव तिमिरावृता । कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥१८॥
न स्म विभ्राजते देवी शोकाश्रुलुलितानना । ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥१९॥
सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत । ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२०॥
करेणवैव अरण्ये स्थान प्रच्युत यूथपाः । तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२१॥
कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः । कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२२॥
हा नाथ इति परिक्रुश्य पेततुर् धरणी तले । सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२३॥
न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता । नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२४॥
आपश्यंस्ताः स्त्रियः सर्वा हताम् नागवधूमिव । ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२५॥
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः । ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२६॥
येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् । तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२७॥
सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् । सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२८॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे पञ्चषष्टितमः सर्गः ॥