तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह । मित्र अमात्य गणान् सर्वान् ब्राह्मणांस् तान् इदम् वचः ॥१॥
अष्टषष्टितमः सर्गः 2.68
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
यद् असौ मातुल कुले पुरे राज गृहे सुखी । भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२॥
तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः । आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥३॥
गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् । तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥४॥
एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन । श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥५॥
पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः । त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥६॥
पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥७॥
मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् । भवन्तः शंसिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥८॥
कौशेयानि च वस्त्राणि भूषणानि वराणि च । क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥९॥
दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् । केकयांस्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥१०॥
ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् । वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥११॥
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति । निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥१२॥
ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः । पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥१३॥
सरांसि च सुपूर्णानि नदीश्च विमलोदकाः । निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥१४॥
ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् । उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥१५॥
निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् । अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥१६॥
अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् । पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥१७॥
अवेक्स्याञ्जलिपानांश्च ब्राह्मणान् वेदपारगान् । ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥१८॥
विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् । नदीर्वापीस्तटाकानि पल्वलानि सरांसि च ॥१९॥
पस्यन्तो विविधांश्चापि सिमहव्याग्रमृगद्विपान् । ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२०॥
ते श्रान्त वाहना दूता विकृष्टेन सता पथा । गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२१॥
भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् । भर्तुः च वंशस्य परिग्रह अर्थम् । अहेडमानाः त्वरया स्म दूता । रात्र्याम् तु ते तत् पुरम् एव याताः ॥२२॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे अष्टषष्टितमः सर्गः ॥