रामायणम्

पञ्चसप्ततितमः सर्गः 2.75

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् । नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥१॥

सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् । राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२॥

अभिषेकम् न जानामि यो.भूद्रज्ज़्ना समीक्षितः । विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥३॥

वनवासम् न जानामि रामस्यहम् महात्मनः । विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥४॥

तथैव क्रोशतः तस्य भरतस्य महात्मनः । कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥५॥

आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः । तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥६॥

एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा । प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥७॥

स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा । प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥८॥

ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ । पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥९॥

रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् । भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥१०॥

इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् । सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥११॥

प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् । कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥१२॥

क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति । हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥१३॥

अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् । अग्नि होत्रम् पुरः कृत्य प्रस्थास्ये यत्र राघवः ॥१४॥

कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि । यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥१५॥

इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् । हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥१६॥

2.75.16 #071d2fe95c01 timing uncertain

इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः । विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥१७॥

पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः । विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥१८॥

एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा । कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥१९॥

आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् । विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२०॥

कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन । सत्य संधः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥२१॥

प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु । हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥२२॥

कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् । अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥२३॥

परिपालयमानस्य राज्ञो भूतानि पुत्रवत् । ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥२४॥

बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः । अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥२५॥

संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् । ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥२६॥

हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले । मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥२७॥

उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता । स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥२८॥

मा च तम् प्यूढबाह्वंसम् चन्द्रार्कसम्तेजनम् । द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥२९॥

पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः । गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥३०॥

गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् । मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥३१॥

विश्वासात्कथितम् किंचित्परिवादम् मिथः क्वचित् । विवृणोतु स दुष्टात्मा यस्यार्योओऽनुमते गतः ॥३२॥

अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः । लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥३३॥

पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः । स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥३४॥

अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् । अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥३५॥

2.75.35 #53e6a06b1871 timing uncertain

मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः । आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥३६॥

राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते । भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥३७॥

लाक्षया मधुमांसेन लोहेन च विषेण च । सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥३८॥

सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे । पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥३९॥

कपालपाणिः पृथिवीमटताम् चीरसम्वृतः । भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥४०॥

पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः । काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥४१॥

यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् । अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥४२॥

संचितान्यस्य वित्तानि विविधानि सहस्रशः । दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥४३॥

उभे संध्ये शयानस्य यत् पापम् परिकल्प्यते । तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥४४॥

यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे । मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥४५॥

देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च । मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥४६॥

सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा । भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥४७॥

अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् । दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥४८॥

बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः । स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥४९॥

आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् । आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥५०॥

मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः । राज्ज़्नो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥५१॥

ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् । अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥५२॥

धर्मदारान् परित्यज्य परदारान्नि षेवताम् । त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥५३॥

2.75.53 #c8933b08f9c3 timing uncertain

विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् । तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥५४॥

पानीयदूषके पापम् तथैव विषदायके । यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥५५॥

ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः । बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥५६॥

2.75.56 #09cd52c1c7ec timing uncertain

तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् । लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥५७॥

भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः । तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥५८॥

विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः । एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥५९॥

2.75.59 #aacfdf21b5f6 timing uncertain

तथा तु शपथैः कष्टैः शपमानम् अचेतनम् । भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥६०॥

मम दुह्खम् इदम् पुत्र भूयः समुपजायते । शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥६१॥

दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः । वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥६२॥

इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् । परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥६३॥

एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः । मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥६४॥

लालप्यमानस्य विचेतनस्य । प्रनष्ट बुद्धेः पतितस्य भूमौ । मुहुर् मुहुर् निह्श्वसतः च दीर्घम् । सा तस्य शोकेन जगाम रात्रिः ॥६५॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥

Listen to the sarga
0:00