रामायणम्

एकोनाशीतितमः सर्गः 2.79

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः प्रभात समये दिवसे अथ चतुर्दशे । समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥१॥

गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः । रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२॥

त्वम् अद्य भव नो राजा राज पुत्र महा यशः । सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥३॥

आभिषेचनिकम् सर्वम् इदम् आदाय राघव । प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥४॥

राज्यम् गृहाण भरत पितृ पैतामहम् महत् । अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥५॥

आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् । भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥६॥

ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः । न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥७॥

रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः । अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥८॥

युज्यताम् महती सेना चतुर् अन्ग महा बला । आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥९॥

आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् । पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥१०॥

तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् । आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥११॥

न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् । वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥१२॥

क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च । रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥१३॥

एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् । प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥१४॥

एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् । यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥१५॥

अनुत्तमम् तत् वचनम् नृप आत्मज । प्रभाषितम् संश्रवणे निशम्य च । प्रहर्षजाः तम् प्रति बाष्प बिन्दवो । निपेतुर् आर्य आनन नेत्र सम्भवाः ॥१६॥

ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः । सामात्याः सपरिषदो वियात शोकाः । पन्थानम् नर वर भक्तिमान् जनः च । व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥१७॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥

Listen to the sarga
0:00