रामायणम्

पचाशीतितमः सर्गः 2.85

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

एवमुक्तस्तु भरतो निषादाधिपतिं गुहम् । प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम् ॥१॥

ऊर्जितः खलु ते कामः कृतःमम गुरोह् सखे। यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२॥

इति उक्त्वा तु महा तेजा गुहम्वचनम् उत्तमम्। अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥३॥

कतरेण गमिष्यामि भरद्वाजाश्रमम् गुह। गहनो अयम् भृशम् देशो गङ्गा अनूपो दुरत्ययः ॥४॥

तस्य तत् वचनम् श्रुत्वा राजपुत्रस्य धीमतः। अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥५॥

दाशाः तु अनुगमिष्यन्तिधन्विनः सुसमाहिताः। अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥६॥

कच्चिन् न दुष्टः व्रजसि रामस्याक्लिष्ट कर्मणः। इयम् ते महती सेना शन्काम् जनयति इव मे ॥७॥

तम् एवम् अभिभाषन्तमाकाशैव निर्मलः। भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥८॥

मा भूत् स कालो यत् कष्टम् नमाम् शन्कितुम् अर्हसि। राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥९॥

तम् निवर्तयितुम् यामि काकुत्स्थम्वन वासिनम्। बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥१०॥

स तु सम्हृष्ट वदनः श्रुत्वाभरत भाषितम्। पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥११॥

धन्यः त्वम् न त्वया तुल्यंपश्यामि जगती तले। अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥१२॥

शाश्वती खलु ते कीर्तिर्लोकान् अनुचरिष्यति। यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥१३॥

एवम् सम्भाषमाणस्य गुहस्यभरतम् तदा। बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥१४॥

सम्निवेश्य स ताम् सेनाम् गुहेनपरितोषितः। शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥१५॥

राम चिन्तामयः शोको भरतस्यमहात्मनः। उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥१६॥

अन्तर् दाहेन दहनः सम्तापयतिराघवम्। वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥१७॥

प्रस्रुतः सर्व गात्रेभ्यः स्वेदःशोक अग्नि सम्भवः। यथा सूर्य अंशु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥१८॥

ध्यान निर्दर शैलेनविनिह्श्वसित धातुना। दैन्य पादप सम्घेन शोक आयास अधिशृंगिणा ॥१९॥

प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना। आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२०॥

विनिश्श्वसन्वैभृशदुर्मनास्ततः। प्रमूढसम्ज्ञः परमापदम् गतः। शमम् न लेभे हृदयज्वरार्दितो। नरर्षभो यूथहतो यथर्षभः ॥२१॥

गुहेन सार्धम् भरतःसमागतः। महा अनुभावः सजनः समाहितः। सुदुर्मनाः तम् भरतम् तदा पुनर्। गुहः समाश्वासयद् अग्रजम् प्रति ॥२२॥

इत्यार्षे श्रीमद्रामायणेदिकाव्ये अयोध्याकाम्डे पचाशीतितमः सर्गः ॥

Listen to the sarga
0:00