रामायणम्

चत्वारिंशः सर्गः 3.41

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

आज्ञप्तो रावणेन इत्थम् प्रतिकूलम् च राजवत् । अब्रवीत् परुषम् वाक्यम् निःशन्को राक्षसाधिपम् ॥१॥

केन अयम् उपदिष्टः ते विनाशः पाप कर्मणा । स पुत्रस्य स राज्यस्य स अमात्यस्य निशाचर ॥२॥

कः त्वया सुखिना राजन् न अभिनन्दति पापकृत् । केन इदम् उपदिष्टम् ते मृत्यु द्वारम् उपायतः ॥३॥

शत्रवः तव सुव्यक्तम् हीन वीर्या निशा चर । इच्छन्ति त्वाम् विनश्यन्तम् उपरुद्धम् बलीयसा ॥४॥

केन इदम् उपदिष्टम् ते क्षुद्रेण अहित बुद्धिना । यः त्वाम् इच्छति नश्यन्तम् स्व कृतेन निशाचर ॥५॥

वध्याः खलु न वध्यन्ते सचिवाः तव रावण । ये त्वाम् उत्पथम् आरूढम् न निगृह्णन्ति सर्वशः ॥६॥

अमात्यैः काम वृत्तो हि राजा कापथम् आश्रितः । निग्राह्यः सर्वथा सद्भिः न निग्राह्यो निगृह्यसे ॥७॥

धर्मम् अर्थम् च कामम् च यशः च जयताम् वर । स्वामि प्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥८॥

विपर्यये तु तत् सर्वम् व्यर्थम् भवति रावण । व्यसनम् स्वामि वैगुण्यात् प्राप्नुवन्ति इतरे जनाः ॥९॥

राज मूलो हि धर्मः च जयः च जयताम् वर । तस्मात् सर्वासु अवस्थासु रक्षितव्यो नराधिपाः ॥१०॥

राज्यम् पालयितुम् शक्यम् न तीक्ष्णेन निशाचर । न च अपि प्रतिकूलेन न अविनीतेन राक्षस ॥११॥

ये तीक्ष्ण मंत्राः सचिवा भज्यन्ते सह तेन वै । विषमे तुरगाः शीघ्रा मन्द सारथयो यथा ॥१२॥

बहवः साधवो लोके युक्त धर्मम् अनुष्ठिताः । परेषाम् अपराधेन विनष्टाः स परिच्छदाः ॥१३॥

स्वामिना प्रतिकूलेन प्रजाः तीक्ष्णेन रावण । रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥१४॥

अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः । येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥१५॥

तद् इदम् काक तालीयम् घोरम् आसादितम् मया । अत्र त्वम् शोचनीयो असि स सैन्यो विनशिष्यसि ॥१६॥

माम् निहत्य तु रामो असौ अचिरात् त्वाम् वधिष्यति । अनेन कृत कृत्यो अस्मि म्रिये च अपि अरिणा हतः ॥१७॥

दर्शनात् एव रामस्य हतम् माम् अवधारय । आत्मानम् च हतम् विद्धि हृत्वा सीताम् स बान्धवम् ॥१८॥

आनयिष्यसि चेत् सीताम् आश्रमात् सहितो मया । न एव त्वम् असि न एव अहम् न एव लंका न राक्षसाः ॥१९॥

निवार्यमाणः तु मया हित एषिणा न मृष्यसे वाक्यम् इदम् निशाचर । परेत कल्पा हि गत आयुषो नरा हितम् न गृह्णन्ति सुहृद्भिः ईरितम् ॥२०॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे एक चत्वारिंशः सर्गः ॥

Listen to the sarga
0:00