एवम् ब्रुवत्याम् सीतायाम् संरब्धः परुष अक्षरम् । ललाटे भ्रुकुटीम् कृत्वा रावणः प्रति उवाच ह ॥१॥
चत्वारिंशः सर्गः 3.48
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
भ्राता वैश्रवणस्य अहम् सापत्नो वरवर्णिनि । रावणो नाम भद्रम् ते दशग्रीवः प्रतापवान् ॥२॥
यस्य देवाः स गंधर्वाः पिशाच पतग उरगाः । विद्रवन्ति भयात् भीता मृत्योः इव सदा प्रजाः ॥३॥
येन वैश्रवणो भ्राता वैमात्रः कारणांतरे । द्वन्द्वम् आसादितः क्रोधात् रणे विक्रम्य निर्जितः ॥४॥
मत् भय आर्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत् । कैलासम् पर्वत श्रेष्ठम् अध्यास्ते नर वाहनः ॥५॥
यस्य तत् पुष्पकम् नाम विमानम् कामगम् शुभम् । वीर्याद् आवर्जितम् भद्रे येन यामि विहायसम् ॥६॥
मम संजात रोषस्य मुखम् दृष्ट्वा एव मैथिलि । विद्रवन्ति परित्रस्ताः सुराः शक्र पुरोगमाः ॥७॥
यत्र तिष्ठामि अहम् तत्र मारुतो वाति शन्कितः । तीव्र अंशुः शिशिर अंशुः च भयात् संपद्यते रविः ॥८॥
निष्कंप पत्राः तरवो नद्यः च स्तिमित उदकाः । भवन्ति यत्र तत्र अहम् तिष्ठामि च चरामि च ॥९॥
मम पारे समुद्रस्य लंका नाम पुरी शुभा । संपूर्णा राक्षसैः घोरैः यथा इन्द्रस्य अमरावती ॥१०॥
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता । हेम कक्ष्या पुरी रम्या वैदूर्यमय तोरणा ॥११॥
हस्ति अश्व रथ संभाधा तूर्य नाद विनादिता । सर्व काम फलैः वृक्षैः संकुल उद्यान भूषिता ॥१२॥
तत्र त्वम् वस हे सीते राजपुत्रि मया सह । न स्मरिष्यसि नारीणाम् मानुषीणाम् मनस्विनि ॥१३॥
भुंजाना मानुषान् भोगान् दिव्यान् च वरवर्णिनि । न स्मरिष्यसि रामस्य मानुषस्य गत आयुषः ॥१४॥
स्थापयित्वा प्रियम् पुत्रम् राज्ञा दशरथेन यः । मन्द वीर्यः सुतो ज्येष्ठः ततः प्रस्थापितो वनम् ॥१५॥
तेन किम् भ्रष्ट राज्येन रामेण गत चेतसा । करिष्यसि विशालाक्षि तापसेन तपस्विना ॥१६॥
सर्व राक्षस भर्तारम् कामय - कामात् - स्वयम् आगतम् । न मन्मथ शर आविष्टम् प्रति आख्यातुम् त्वम् अर्हसि ॥१७॥
प्रति आख्याय हि माम् भीरु परितापम् गमिष्यसि । चरणेन अभिहत्य इव पुरूरवसम् ऊर्वशी ॥१८॥
अंगुल्या न समो रामो मम युद्धे स मानुषः । तव भाग्येन् संप्राप्तम् भजस्व वरवर्णिनि ॥१९॥
एवम् उक्ता तु वैदेही क्रुद्धा संरक्त लोचना । अब्रवीत् परुषम् वाक्यम् रहिते राक्षस अधिपम् ॥२०॥
कथम् वैश्रवणम् देवम् सर्व देव नमस्कृतम् । भ्रातरम् व्यपदिश्य त्वम् अशुभम् कर्तुम् इच्छसि ॥२१॥
अवश्यम् विनशिष्यन्ति सर्वे रावण राक्षसाः । येषाम् त्वम् कर्कशो राजा दुर्बुद्धिः अजित इन्द्रियः ॥२२॥
अपहृत्य शचीम् भार्याम् शक्यम् इन्द्रस्य जीवितुम् । न हि रामस्य भार्याम् माम् अपनीय अस्ति जीवितम् ॥२३॥
जीवेत् चिरम् वज्र धरस्य हस्तात् शचीम् प्रधृष्य अप्रतिरूप रूपाम् । न मा दृशीम् राक्षस धर्षयित्वा पीत अमृतस्य अपि तव अस्ति मोक्षः ॥२४॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे अष्ट चत्वारिंशः सर्गः ॥