तप्यमानम् तथा रामम् सीता हरण कर्शितम् । लोकानाम् अभवे युक्तम् सांवर्तकम् इव अनलम् ॥१॥
षष्टितमः सर्गः 3.65
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
वीक्षमाणम् धनुः सज्यम् निःश्वसंतम् पुनः पुनः । दग्धु कामम् जगत् सर्वम् युग अन्ते च यथा हरम् ॥२॥
अदृष्ट पूर्वम् संक्रुद्धम् दृष्ट्वा रामम् स लक्ष्मणः । अब्रवीत् प्रांजलिः वाक्यम् मुखेन परिशुष्यता ॥३॥
पुरा भूत्वा मृदुः दांतः सर्व भूत हिते रतः । न क्रोध वशम् आपन्नः प्रकृतिम् हातुम् अर्हसि ॥४॥
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिः वायौ भुवि क्षमा । एतत् च नियतम् सर्वम् त्वयि च अनुत्तमम् यशः ॥५॥
एकस्य न अपराधेन लोकान् हन्तुम् त्वम् अर्हसि । न तु जानामि कस्य अयम् भग्नः सांग्रामिको रथः ॥६॥
केन वा कस्य वा हेतोः स आयुधः स परिच्छदः । खुर नेमि क्षतः च अयम् सिक्तो रुधिर बिन्दुभिः ॥७॥
देशो निवृत्त संग्रामः सु घोरः पार्थिव आत्मज । एकस्य तु विमर्दो अयम् न द्वयोः वदताम् वर ॥८॥
न हि वृत्तम् हि पश्यामि बलस्य महतः पदम् । न एकस्य तु कृते लोकान् विनाशयितुम् अर्हसि ॥९॥
युक्त दण्डा हि मृदवः प्रशान्ता वसुधा अधिपाः । सदा त्वम् सर्व भूतानाम् शरण्यः परमा गतिः ॥१०॥
को नु दार प्रणाशम् ते साधु मन्येत राघव । सरितः सागराः शैला देव गन्धर्व दानवाः ॥११॥
न अलम् ते विप्रियम् कर्तुम् दीक्षितस्य इव साधवः । येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि ॥१२॥
मद् द्वितीयो धनुष् पाणिः सहायैः परम ऋषिभिः । समुद्रम् च विचेष्यामः पर्वतान् च वनानि च ॥१३॥
गुहाः च विविधा घोरा पद्मिन्यो विविधाः थथा । देव गन्धर्व लोकान् च विचेष्यामः समाहिताः ॥१४॥
यावत् न अधिगमिष्यामः तव भार्या अपहारिणम् । न चेत् साम्ना प्रदास्यन्ति पत्नीम् ते त्रिदश ईश्वराः । कोसल इन्द्र ततः पश्चात् प्राप्त कालम् करिष्यसि ॥१५॥
शीलेन साम्ना विनयेन सीताम् नयेन न प्राप्स्यसि चेत् नरेन्द्र । ततः समुत्सादय हेम पुंखैः महेन्द्र वज्र प्रतिमैः शर ओघैः ॥१६॥
इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे पंच षष्टितमः सर्गः ॥