रामायणम्

षष्टितमः सर्गः 3.68

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

रामः प्रेक्ष्य तु तम् गृध्रम् भुवि रौद्रेण पातितम् । सौमित्रिम् मित्र संपन्नम् इदम् वचनम् अब्रवीत् ॥१॥

मम अयम् नूनम् अर्थेषु यतमानो विहंगमः । राक्षसेन हतः संख्ये प्राणान् त्यजति मत् कृते ॥२॥

अति खिन्नः शरीरे अस्मिन् प्राणो लक्ष्मण विद्यते । तथा स्वर विहीनो अयम् विक्लवम् समुदीक्षते ॥३॥

जटायो यदि शक्नोषि वाक्यम् व्याहरितुम् पुनः । सीताम् आख्याहि भद्रम् ते वधम् आख्याहि च आत्मनः ॥४॥

किम् निमित्तो जहार आर्याम् रावणः तस्य किम् मया । अपराधम् तु यम् दृष्ट्वा रावणेन हृता प्रिया ॥५॥

कथम् तत् चन्द्र संकाशम् मुखम् आसीत् मनोहरम् । सीतया कानि च उक्तानि तस्मिन् काले द्विजोत्तम ॥६॥

कथम् वीर्यः कथम् रूपः किम् कर्मा स च राक्षसः । क्व च अस्य भवनम् तात ब्रूहि मे परिपृच्छतः ॥७॥

तम् उद्वीक्ष्य सः धर्मात्मा विलपन्तम् अनाथवत् । वाचा विक्लवया रामम् इदम् वचनम् अब्रवीत् ॥८॥

सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना । मायाम् आस्थाय विपुलाम् वात दुर्दिन संकुलाम् ॥९॥

परिक्लांतस्य मे तात पक्षौ चित्त्वा निशाचरः । सीताम् आदाय वैदेहीम् प्रयातो दक्षिणा मुखः ॥१०॥

उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव । पश्यामि वृक्षान् सौवर्णान् उशीर कृत मूर्धजान् ॥११॥

येन याति मुहूर्तेन सीताम् आदाय रावणः । विप्रनष्टम् धनम् क्षिप्रम् तत् स्वामि प्रतिपद्यते ॥१२॥

विन्दो नाम मुहूर्तो असौ स च काकुत्स्थ न अबुधत् । त्वत् प्रियाम् जानकीम् हृत्वा रावणो राक्षसेश्वर । झषवत् बडिशम् गृह्य क्षिप्रम् एव विनश्यति ॥१३॥

न च त्वया व्यथा कार्या जनकस्य सुताम् प्रति । वैदेह्या रंस्यसे क्षिप्रम् हत्वा तम् रणमूर्धनि ॥१४॥

असंमूढस्य गृध्रस्य रामम् प्रति अनुभाषतः । आस्यात् सुस्राव रुधिरम् म्रियमाणस्य स अमिषम् ॥१५॥

पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च । इति उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥१६॥

ब्रूहि ब्रूहि इति रामस्य ब्रुवाणस्य कृतांजलेः । त्यक्त्वा शरीरम् गृध्रस्य जग्मुः प्राणा विहायसम् ॥१७॥

स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा । विक्षिप्य च शरीरम् स्वम् पपात धरणी तले ॥१८॥

तम् गृध्रम् प्रेक्ष्य ताम्र अक्षम् गत असुम् अचलोपमम् । रामः सु बहुभिः दुह्खैः दीनः सौमित्रिम् अब्रवीत् ॥१९॥

बहूनि रक्षसाम् वासे वर्षाणि वसता सुखम् । अनेन दण्डकारण्ये विशीर्णम् इह पक्षिणा ॥२०॥

अनेक वार्षिको यः तु चिर काल समुत्थितः । सो अयम् अद्य हतः शेते कालो हि दुर्अतिक्रमः ॥२१॥

पश्य लक्ष्मण गृध्रो अयम् उपकारी हतः च मे । सीताम् अभ्यवपन्नो हि रावणेन बलीयसा ॥२२॥

गृध्र राज्यम् परित्यज्य पितृ पैतामहम् महत् । मम हेतोः अयम् प्राणान् मुमोच पतगेश्वरः ॥२३॥

सर्वत्र खलु दृश्यन्ते साधवो धर्म चारिणः । शूराः शरण्याः सौमित्रे तिर्यक् योनि गतेषु अपि ॥२४॥

सीता हरणजं दुःखम् न मे सौम्य तथा गतम् । यथा विनाशो गृध्रस्य मत् कृते च परंतप ॥२५॥

राजा दशरथः श्रीमान् यथा मम मया यशाः । पूजनीयः च मान्यः च तथा अयम् पतगेश्वरः ॥२६॥

सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । गृध्र राजम् दिधक्षामि मत् कृते निधनम् गतम् ॥२७॥

नाथम् पतग लोकस्य चिताम् आरोपयामि अहम् । इमम् धक्ष्यामि सौमित्रे हतम् रौद्रेण रक्षसा ॥२८॥

या गतिः यज्ञ शीलानाम् आहित अग्नेः च या गतिः । अ पर आवर्तिनाम् या च या च भूमि प्रदायिनाम् ॥२९॥

मया त्वम् समनुज्ञातो गच्छ लोकान् अनुत्तमान् । गृध्र राज महा सत्त्व संस्कृतः च मया व्रज ॥३०॥

एवम् उक्त्वा चिताम् दीप्ताम् आरोप्य पतगेश्वरम् । ददाह रामो धर्मात्मा स्व बन्धुम् इव दुःखितः ॥३१॥

रामो अथ सह सौमित्रिः वनम् यात्वा स वीर्यवान् । स्थूलान् हत्वा महा रोहीन् अनु तस्तार तम् द्विजम् ॥३२॥

रोहि मांसानि च उद्धृत्य पेशी कृत्वा महायशाः । शकुनाय ददौ रामो रम्ये हरित शाद्वले ॥३३॥

यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः । तत् स्वर्ग गमनम् पित्र्यम् क्षिप्रम् रामो जजाप ह ॥३४॥

ततो गोदावरीम् गत्वा नदीम् नर वर आत्मजौ । उदकम् चक्रतुः तस्मै गृध्र राजाय तौ उभौ ॥३५॥

शास्त्र दृष्टेन विधिना जले गृधाय राघवौ । स्नात्वा तौ गृध्र राजाय उदकम् चक्रुः तदा ॥३६॥

स गृध्र राजः कृतवान् यशस्करम् सु दुष्करम् कर्म रणे निपातितः । महर्षि कल्पेन च संस्कृतः तदा जगाम पुण्याम् गतिम् आत्मनः शुभाम् ॥३७॥

कृतोदकौ तौ अपि पक्षि सत्तमे स्थिराम् च बुद्धिम् प्रणिधाय जग्मुतुः । प्रवेश्य सीता अधिगमने ततो मनो वनम् सुरेन्द्रौ इव विष्णु वासवौ ॥३८॥

इति वाल्मीकि रामायणे आदि काव्ये अरण्य काण्डे अष्ट षष्टितमः सर्गः ॥

Listen to the sarga
0:00