रामायणम्

तृतियः सर्गः 4.3

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः । पर्वतात् ऋष्यमूकात् तु पुप्लुवे यत्र राघवौ ॥१॥

कपि रूपम् परित्यज्य हनुमान् मारुतात्मजः । भिक्षु रूपम् ततो भेजे शठबुद्धितया कपिः ॥२॥

ततः च हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया । विनीतवत् उपागम्य राघवौ प्रणिपत्य च ॥३॥

अबभाषे च तौ वीरौ यथावत् प्रशशंस च । संपूज्य विधिवद् वीरौ हनुमान् वानरोत्तमः ॥४॥

उवाच कामतो वाक्यम् मृदु सत्य पराक्रमौ । राजर्षि देव प्रतिमौ तापसौ संशित व्रतौ ॥५॥

देशम् कथम् इमम् प्राप्तौ भवन्तौ वर वर्णिनौ । त्रासयन्तौ मृग गणान् अन्याम् च वन चारिणः ॥६॥

पम्पा तीर रुहान् वृक्षान् वीक्षमाणौ समंततः । इमाम् नदीम् शुभ जलाम् शोभयन्तौ तरस्विनौ ॥७॥

धैर्यवन्तौ सुवर्णाभौ कौ युवाम् चीर वाससौ । निःश्वसन्तौ वर भुजौ पीडयन्तौ इमाः प्रजाः ॥८॥

सिंह विप्रेक्षितौ वीरौ महाबल पराक्रमौ । शक्र चाप निभे चापे गृहीत्वा शत्रु नाशनौ ॥९॥

श्रीमन्तौ रूप संपन्नौ वृषभ श्रेष्ठ विक्रमौ । हस्ति हस्त उपम भुजौ द्युतिमन्तौ नरर्षभौ ॥१०॥

प्रभया पर्वत इन्द्रः असौ युवयोः अवभासितः । राज्य अर्हौ अमर प्रख्यौ कथम् देशम् इह आगतौ ॥११॥

पद्म पत्र ईक्षणौ वीरौ जटा मण्डल धारिणौ । अन्योन्य सदृशौ वीरौ देव लोकात् इह आगतौ ॥१२॥

यदृच्छयेव संप्राप्तौ चन्द्र सूर्यौ वसुंधराम् । विशाल वक्षसौ वीरौ मानुषौ देव रूपिणौ ॥१३॥

सिंह स्कन्धौ महा उत्साहौ समदौ इव गोवृषौ । आयताः च सुवृत्ताः च बाहवः परिघोपमाः ॥१४॥

सर्व भूषण भूषार्हाः किम् अर्थम् न विभूषिताः । उभौ योग्यौ अहम् मन्ये रक्षितुम् पृथिवीम् इमाम् ॥१५॥

स सागर वनाम् कृत्स्नाम् विन्ध्य मेरु विभूषिताम् । इमे च धनुषी चित्रे श्लक्ष्णे चित्र अनुलेपने ॥१६॥

प्रकाशेते यथा इन्द्रस्य वज्रे हेम विभूषिते । संपूर्णाः च शितैः बाणैः तूणाः च शुभ दर्शनाः ॥१७॥

जीवित अन्तकरैः घोरैः ज्वलद्भिः इव पन्नगैः । महा प्रमाणौ विपुलौ तप्त हाटक भूषणौ ॥१८॥

खड्गौ एतौ विराजेते निर्मुक्त भुजगौ इव । एवम् माम् परिभाषन्तम् कस्माद् वै न अभि भाषतः ॥१९॥

सुग्रीवो नाम धर्मात्मा कश्चित् वानर पुंगवः । वीरो विनिकृतो भ्रात्रा जगत् भ्रमति दुःखितः ॥२०॥

प्राप्तः अहम् प्रेषितः तेन सुग्रीवेण महात्मना । राज्ञा वानर मुख्यानाम् हनुमान् नाम वानरः ॥२१॥

युवाभ्याम् स हि धर्मात्मा सुग्रीवः सख्यम् इच्छति । तस्य माम् सचिवम् वित्तम् वानरम् पवनात्मजम् ॥२२॥

भिक्षु रूप प्रति च्छन्नम् सुग्रीव प्रिय कारणात् । ऋश्यमूकात् इह प्राप्तम् कामगम् कामचारिणम् ॥२३॥

एवम् उक्त्वा तु हनुमाम् तौ वीरौ राम लक्ष्मणौ । वाक्यज्ञो वाक्य कुशलः पुनः न उवाच किंचन ॥२४॥

एतत् श्रुत्वा वचः तस्य रामो लक्ष्मणम् अब्रवीत् । प्रहृष्ट वदनः श्रीमान् भ्रातरम् पार्श्वतः स्थितम् ॥२५॥

सचिवो अयम् कपीन्द्रस्य सुग्रीवस्य महात्मनः । तम् एव काङ्क्षमाणस्य मम अन्तिकम् इह आगतः ॥२६॥

तम् अभ्यभाष सौमित्रे सुग्रीव सचिवम् कपिम् । वाक्यज्ञम् मधुरैः वाक्यैः स्नेह युक्तम् अरिन्दम ॥२७॥

न अन् ऋग्वेद विनीतस्य न अयजुर्वेद धारिणः । न असाम वेद विदुषः शक्यम् एवम् विभाषितुम् ॥२८॥

नूनम् व्यकरणम् कृत्स्नम् अनेन बहुधा श्रुतम् । बहु व्याहरता अनेन न किंचित् अप शब्दितम् ॥२९॥

न मुखे नेत्रयोः च अपि ललाटे च भ्रुवोः तथा । अन्येषु अपि च सर्वेषु दोषः संविदितः क्वचित् ॥३०॥

अविस्तरम् असंदिग्धम् अविलम्बितम् अव्यथम् । उरःस्थम् कण्ठगम् वाक्यम् वर्तते मध्यमे स्वरम् ॥३१॥

संस्कार क्रम संपन्नाम् अद्भुताम् अविलम्बिताम् । उच्चारयति कल्याणीम् वाचम् हृदय हर्षिणीम् ॥३२॥

अनया चित्रया वाचा त्रिस्थान व्यंजनस्थयाः । कस्य न आराध्यते चित्तम् उद्यत् असे अरेः अपि ॥३३॥

एवम् विधो यस्य दूतो न भवेत् पार्थिवस्य तु । सिद्ध्यन्ति हि कथम् तस्य कार्याणाम् गतयोऽनघ ॥३४॥

एवम् गुण गणैर् युक्ता यस्य स्युः कार्य साधकाः । तस्य सिद्ध्यन्ति सर्वेऽर्था दूत वाक्य प्रचोदिताः ॥३५॥

एवम् उक्तः तु सौमित्रिः सुग्रीव सचिवम् कपिम् । अभ्यभाषत वाक्यज्ञो वाक्यज्ञम् पवनात्मजम् ॥३६॥

विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः । तम् एव च अवाम् मार्गावः सुग्रीवम् प्लवगेश्वरम् ॥३७॥

यथा ब्रवीषि हनुमान् सुग्रीव वचनाद् इह । तत् तथा हि करिष्यावो वचनात् तव सत्तम ॥३८॥

तत् तस्य वाक्यम् निपुणम् निशम्य प्रहृष्ट रूपः पवनात्मजः कपिः । मनः समाधाय जय उपपत्तौ सख्यम् तदा कर्तुम् इयेष ताभ्याम् ॥३९॥

इति वाल्मीकि रामायणे आदि काव्ये किष्किन्ध काण्डे तृतियः सर्गः ॥

Listen to the sarga
0:00