रामायणम्

चतुर्दशः सर्गः 5.14

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

स मुहूर्तम् इव ध्यत्वा मनसा च अधिगम्य ताम् । अवप्लुतो महा तेजाः प्राकारम् तस्य वेश्मनः ॥१॥

स तु सम्हृष्ट सर्व अन्गः प्राकारस्थो महा कपिः । पुष्पित अग्रान् वसन्त आदौ ददर्श विविधान् द्रुमान् ॥२॥

सालान् अशोकान् भव्यामः च चम्पकामः च सुपुष्पितान् । उद्दालकान् नाग वृक्षामः चूतान् कपि मुखान् अपि ॥३॥

अथ आम्र वण संचन्नाम् लता शत समावृताम् । ज्या मुक्त इव नाराचः पुप्लुवे वृक्ष वाटिकाम् ॥४॥

स प्रविष्य विचित्राम् ताम् विहगैर् अभिनादिताम् । राजतैः कान्चनैः चैव पादपैः सर्वतो वृताम् ॥५॥

विहगैर् मृग सम्घैः च विचित्राम् चित्र काननाम् । उदित आदित्य सम्काशाम् ददर्श हनुमान् कपिः ॥६॥

वृताम् नाना विधैर् वृक्षैः पुष्प उपग फल उपगैः । कोकिलैर् भृन्ग राजैः च मत्तैर् नित्य निषेविताम् ॥७॥

प्रहृष्ट मनुजे कले मृग पक्षि समाकुले । मत्त बर्हिण सम्घुष्टाम् नाना द्विज गण आयुताम् ॥८॥

मार्गमाणो वर आरोहाम् राज पुत्रीम् अनिन्दिताम् । सुख प्रसुप्तान् विहगान् बोधयाम् आस वानरः ॥९॥

उत्पतद्भिर् द्विज गणैः पक्षैः सालाः समाहताः । अनेक वर्णा विविधा मुमुचुः पुष्प वृष्टयः ॥१०॥

पुष्प अवकीर्णः शुशुभे हनुमान् मारुत आत्मजः । अशोक वनिका मध्ये यथा पुष्पमयो गिरिः ॥११॥

दिशः सर्व अभिदावन्तम् वृक्ष षण्ड गतम् कपिम् । दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे ॥१२॥

वृक्षेभ्यः पतितैः पुष्पैर् अवकीर्णा पृथग् विधैः । रराज वसुधा तत्र प्रमदा इव विभूषिता ॥१३॥

तरस्विना ते तरवः तरसा अभिप्रकम्पिताः । कुसुमानि विचित्राणि ससृजुः कपिना तदा ॥१४॥

निर्धूत पत्र शिखराः शीर्ण पुष्प फल द्रुमाः । निक्षिप्त वस्त्र आभरणा धूर्ता इव पराजिताः ॥१५॥

हनूमता वेगवता कम्पिताः ते नग उत्तमाः । पुष्प पर्ण फलानि आशु मुमुचुः पुष्प शालिनः ॥१६॥

विहम्ग सम्घैर् हीनाः ते स्कन्ध मात्र आश्रया द्रुमाः । बभूवुर् अगमाः सर्वे मारुतेन इव निर्धुताः ॥१७॥

विधूत केशी युवतिर् यथा मृदित वर्णिका । निष्पीत शुभ दन्त ओष्ठी नखैर् दन्तैः च विक्षता ॥१८॥

तथा लान्गूल हस्तैः च चरणाभ्याम् च मर्दिता । बभूव अशोक वनिका प्रभग्न वर पादपा ॥१९॥

महा लतानाम् दामानि व्यधमत् तरसा कपिः । यथा प्रावृषि विन्ध्यस्य मेघ जालानि मारुतः ॥२०॥

स तत्र मणि भूमीः च राजतीः च मनो रमाः । तथा कान्चन भूमीः च विचरन् ददृशे कपिः ॥२१॥

वापीः च विविध आकाराः पूर्णाः परम वारिणा । महा अर्हैर् मणि सोपानैर् उपपन्नाः ततः ततः ॥२२॥

मुक्ता प्रवाल सिकता स्फटिक अन्तर कुट्टिमाः । कान्चनैः तरुभिः चित्रैः तीरजैर् उपशोभिताः ॥२३॥

फुल्ल पद्म उत्पल वनाः चक्र वाक उपकूजिताः । नत्यूह रुत सम्घुष्टा हंस सारस नादिताः ॥२४॥

दीर्घाभिर् द्रुम युक्ताभिः सरिद्भिः च समन्ततः । अमृत उपम तोयाभिः शिवाभिर् उपसंस्कृताः ॥२५॥

लता शतैर् अवतताः सन्तानक समावृताः । नाना गुल्म आवृत वनाः कर वीर कृत अन्तराः ॥२६॥

ततो अम्बु धर सम्काशम् प्रवृद्ध शिखरम् गिरिम् । विचित्र कूटम् कूटैः च सर्वतः परिवारितम् ॥२७॥

शिला गृहैर् अवततम् नाना वृक्षैः समावृतम् । ददर्श कपि शार्दूलो रम्यम् जगति पर्वतम् ॥२८॥

ददर्श च नगात् तस्मान् नदीम् निपतिताम् कपिः । अन्काद् इव समुत्पत्य प्रियस्य पतिताम् प्रियाम् ॥२९॥

जले निपतित अग्रैः च पादपैर् उपशोभिताम् । वार्यमाणाम् इव क्रुद्धाम् प्रमदाम् प्रिय बन्धुभिः ॥३०॥

पुनर् आवृत्त तोयाम् च ददर्श स महा कपिः । प्रसन्नाम् इव कान्तस्य कान्ताम् पुनर् उपस्थिताम् ॥३१॥

तस्य अदूरात् स पद्मिन्यो नाना द्विज गण आयुताः । ददर्श कपि शार्दूलो हनुमान् मारुत आत्मजः ॥३२॥

कृत्रिमाम् दीर्घिकाम् च अपि पूर्णाम् शीतेन वारिणा । मणि प्रवर सोपानाम् मुख्ता सिकत शोभिताम् ॥३३॥

विविधैर् मृग सम्घैः च विचित्राम् चित्र काननाम् । प्रासादैः सुमहद्भिः च निर्मितैर् विश्व कर्मणा ॥३४॥

काननैः कॄत्रिमैः च अपि सर्वतः समलम्कृताम् । ये केचित् पादपाः तत्र पुष्प उपग फल उपगाः ॥३५॥

सच् चत्राः सवितर्दीकाः सर्वे सौवर्ण वेदिकाः । लता प्रतानैः बहुभिः पर्णैः च बहुभिर् वृताम् ॥३६॥

काञ्चनीम् शिंशुपाम् एकाम् ददर्श स महा कपिः । वृताम् हेममयूभिस्तु वेदिकाभिः समन्ततः ॥३७॥

सो अपश्यद् भूमि भागामः च गर्त प्रस्रवणानि च । सुवर्ण वृक्षान् अपरान् ददर्श शिखि सम्निभान् ॥३८॥

तेषाम् द्रुमाणाम् प्रभया मेरोर् इव महा कपिः । अमन्यत तदा वीरः कान्चनो अस्मि इति वानरः ॥३९॥

ताम् कान्चनैः तरु गणैर् मारुतेन च वीजिताम् । किन्किणी शत निर्घोषाम् दृष्ट्वा विस्मयम् आगमत् ॥४०॥

स पुष्पित अग्राम् रुचिराम् तरुण अन्कुर पल्लवाम् । ताम् आरुह्य महा वेगः शिंशपाम् पर्ण सम्वृताम् ॥४१॥

इतो द्रक्ष्यामि वैदेहीम् राम दर्शन लालसाम् । इतः च इतः च दुह्ख आर्ताम् सम्पतन्तीम् यदृच्चया ॥४२॥

अशोक वनिका च इयम् दृढम् रम्या दुरात्मनः । चम्पकैः चन्दनैः च अपि बकुलैः च विभूषिता ॥४३॥

इयम् च नलिनी रम्या द्विज सम्घ निषेविता । इमाम् सा राम महिषी नूनम् एष्यति जानकी ॥४४॥

सा राम राम महिषी राघवस्य प्रिया सदा । वन संचार कुशला नूनम् एष्यति जानकी ॥४५॥

अथवा मृग शाव अक्षी वनस्य अस्य विचक्षणा । वनम् एष्यति सा च इह राम चिन्ता अनुकर्शिता ॥४६॥

राम शोक अभिसम्तप्ता सा देवी वाम लोचना । वन वास रता नित्यम् एष्यते वन चारिणी ॥४७॥

वने चराणाम् सततम् नूनम् स्पृहयते पुरा । रामस्य दयिता भार्या जनकस्य सुता सती ॥४८॥

संध्या काल मनाः श्यामा ध्रुवम् एष्यति जानकी । नदीम् च इमाम् शिव जलाम् संध्या अर्थे वर वर्णिनी ॥४९॥

तस्याः च अपि अनुरूपेयम् अशोक वनिका शुभा । शुभा या पार्थिव इन्द्रस्य पत्नी रामस्य सम्मिता ॥५०॥

यदि जिवति सा देवी तारा अधिप निभ आनना । आगमिष्यति सा अवश्यम् इमाम् शिव जलाम् नदीम् ॥५१॥

एवम् तु मत्वा हनुमान् महात्मा । प्रतीक्षमाणो मनुज इन्द्र पत्नीम् || अवेक्षमाणः च ददर्श सर्वम् । सुपुष्पिते पर्ण घने निलीनः ॥५२॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरक्स्स्ण्डे चतुर्दशः सर्गः ॥

Listen to the sarga
0:00