स निकामम् विमानेषु विषण्णः काम रूपधृत् । विचचार पुनर्लङ्काम् लाघवेन समन्वितः ॥१॥
षष्ठः सर्गः 5.6
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
आससाद अथ लक्ष्मीवान् राक्षस इन्द्र निवेशनम् । प्राकारेण अर्क वर्णेन भास्वरेण अभिसम्वृतम् ॥२॥
रक्षितम् राक्षसैर् भीमैः सिम्हैर् इव महद् वनम् । समीक्षमाणो भवनम् चकाशे कपि कुन्जरः ॥३॥
रूप्य कोप हितैः चित्रैः तोरणैर् हेम भूषितैः । विचित्राभिः च कक्ष्याभिर् द्वारैः च रुचिरैर् वृतम् ॥४॥
गज आस्थितैर् महा मात्रैः शूरैः च विगत श्रमैः । उपस्थितम् असम्हार्यैर् हयैः स्यन्दन यायिभिः ॥५॥
सिम्ह व्याघ्र तनु त्राणैर् दान्त कान्चन राजतैः । घोषवद्भिर् विचित्रैः च सदा विचरितम् रथैः ॥६॥
बहु रत्न समाकीर्णम् पर अर्ध्य आसन भाजनम् । महा रथ समावासम् महा रथ महा आसनम् ॥७॥
दृश्यैः च परम उदारैः तैः तैः च मृग पक्षिभिः । विविधैर् बहु साहस्रैः परिपूर्णम् समन्ततः ॥८॥
विनीतैर् अन्त पालैः च रक्षोभिः च सुरक्षितम् । मुख्याभिः च वर स्त्रीभिः परिपूर्णम् समन्ततः ॥९॥
मुदित प्रमदा रत्नम् राक्षस इन्द्र निवेशनम् । वर आभरण निर्ह्रादैः समुद्र स्वन निह्स्वनम् ॥१०॥
तद् राज गुण सम्पन्नम् मुख्यैः च वर चन्दनैः । भेरी मृदन्ग अभिरुतम् शन्ख घोष विनादितम् ॥११॥
भेरीमृदङ्गाभिरुतम् शङ्खघोषनिनादितम् । नित्य अर्चितम् पर्व हुतम् पूजितम् राक्षसैः सदा ॥१२॥
समुद्रम् इव गम्भीरम् समुद्रम् इव निह्स्वनम् । महात्मानो महद् वेश्म महा रत्न परिच्चदम् ॥१३॥
महा जन समाकीर्णम् ददर्श स महा कपिः । विराजमानम् वपुषा गज अश्व रथ सम्कुलम् ॥१४॥
लन्का आभरणम् इति एव सो अमन्यत महा कपिः । चचार हनुमांस्तत्र रावणस्य समीपतः ॥१५॥
गृहाद् गृहम् राक्षसानाम् उद्यानानि च वानरः । वीक्षमाणो हि असम्त्रस्तः प्रासादामः च चचार सः ॥१६॥
अवप्लुत्य महा वेगः प्रहस्तस्य निवेशनम् । ततो अन्यत् पुप्लुवे वेश्म महा पार्श्वस्य वीर्यवान् ॥१७॥
अथ मेघ प्रतीकाशम् कुम्भ कर्ण निवेशनम् । विभीषणस्य च तथा पुप्लुवे स महा कपिः ॥१८॥
महा उदरस्य च तथा विरूप अक्षस्य चैव हि । विद्युज् जिह्वस्य भवनम् विद्युन् मालेः तथैव च ॥१९॥
वज्र दम्ष्ट्रस्य च तथा पुप्लुवे स महा कपिः । शुकस्य च महा वेगः सारणस्य च धीमतः । तथा च इन्द्रजितो वेश्म जगाम हरि यूथपः ॥२०॥
जम्बु मालेः सुमालेः च जगाम हरि यूथपः ॥२१॥
रश्मि केतोः च भवनम् सूर्य शत्रोः तथैव च । वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥२२॥
धूम्र अक्षस्य च सम्पातेर् भवनम् मारुत आत्मजः । विद्युद् रूपस्य भीमस्य घनस्य विघनस्य च ॥२३॥
शुक नाभस्य वक्रस्य शठस्य विकटस्य च । ह्रस्व कर्णस्य दम्ष्ट्रस्य रोमशस्य च रक्षसः ॥२४॥
युद्ध उन्मत्तस्य मत्तस्य ध्वज ग्रीवस्य नादिनः । विद्युज् जिह्व इन्द्र जिह्वानाम् तथा हस्ति मुखस्य च ॥२५॥
करालस्य पिशाचस्य शोणित अक्षस्य चैव हि । क्रममाणः क्रमेण एव हनूमान् मारुत आत्मजः ॥२६॥
तेषु तेषु महा अर्हेषु भवनेषु महा यशाः । तेषाम् ऋद्धिमताम् ऋद्धिम् ददर्श स महा कपिः ॥२७॥
सर्वेषाम् समतिक्रम्य भवनानि समन्ततः । आससाद अथ लक्ष्मीवान् राक्षस इन्द्र निवेशनम् ॥२८॥
रावणस्य उपशायिन्यो ददर्श हरि सत्तमः । विचरन् हरि शार्दूलो राक्षसीर् विकृत ईक्षणाः ॥२९॥
शूल मुद्गल हस्ताः च शक्तो तोमर धारिणीः । ददर्श विविधान् गुल्मामः तस्य रक्षः पतेर् गृहे । राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ॥३०॥
रक्तान् श्वेतान् सितामः चैव हरीमः चैव महा जवान् ॥३१॥
कुलीनान् रूप सम्पन्नान् गजान् पर गज आरुजान् । निष्ठितान् गज शिखायाम् ऐरावत समान् युधि ॥३२॥
निहन्तृऋन् पर सैन्यानाम् गृहे तस्मिन् ददर्श सः । क्षरतः च यथा मेघान् स्रवतः च यथा गिरीन् ॥३३॥
मेघ स्तनित निर्घोषान् दुर्धर्षान् समरे परैः । सहस्रम् वाहिनीः तत्र जाम्बूनद परिष्कृताः ॥३४॥
हेम जालैर् अविच्चिन्नाः तरुण आदित्य सम्निभाः । ददर्श राक्षस इन्द्रस्य रावणस्य निवेशने ॥३५॥
शिबिका विविध आकाराः स कपिर् मारुत आत्मजः । लता गृहाणि चित्राणि चित्र शाला गृहाणि च ॥३६॥
क्रीडा गृहाणि च अन्यानि दारु पर्वतकान् अपि । कामस्य गृहकम् रम्यम् दिवा गृहकम् एव च ॥३७॥
ददर्श राक्षस इन्द्रस्य रावणस्य निवेशने । स मन्दर तल प्रख्यम् मयूर स्थान सम्कुलम् ॥३८॥
ध्वज यष्टिभिर् आकीर्णम् ददर्श भवन उत्तमम् । अनन्त रत्न निचयम् निधि जालम् समन्ततः ॥३९॥
धीर निष्ठित कर्म अन्तम् गृहम् भूत पतेर् इव । अर्चिर्भिः च अपि रत्नानाम् तेजसा रावणस्य च ॥४०॥
विरराज अथ तद् वेश्म रश्मिमान् इव रश्मिभिः । जाम्बू नदमयानि एव शयनानि आसनानि च ॥४१॥
भाजनानि च शुभ्राणि ददर्श हरि यूथपः । मध्व् आसव कृत क्लेदम् मणि भाजन सम्कुलम् ॥४२॥
मनो रमम् असम्बाधम् कुबेर भवनम् यथा । नूपुराणाम् च घोषेण कान्चीनाम् निनदेन च ॥४३॥
मृदन्ग तल घोषैः च घोषवद्भिर् विनादितम् । प्रासाद सम्घात युतम् स्त्री रत्न शत सम्कुलम् ॥४४॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दर काण्डे षष्ठः सर्गः ॥