तम् तु शोकपरिद्यूनम् रामम् दशरथात्मजम् । उवाच वचनम् श्रीमान् सुग्रीवह् शोकनाशनम् ॥१॥
द्वितीयः सर्गः 6.2
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
किम् त्वया तप्यते वीर यथान्यः प्राकृतस्तथा । मैवम् भूस्त्यज सतापम् कृतघ्न इव सौहृदम् ॥२॥
सम्तापस्य च ते स्थानम् न हि पश्यामि राघव । प्रवृत्तामुपलब्धायाम् ज्ञाते च निलये रिपोः ॥३॥
मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव । त्यजेमाम् प्राकृताम् उद्धिं कृतात्मेवार्थदूषणीम् ॥४॥
संद्रम् लङ्घयित्वा तु महानक्रसमाकुलम् । लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥५॥
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः । सर्वार्था व्यवसीदन्ति व्यसनम् चाधिगच्छति ॥६॥
इमे शूराः समर्थाश्च सर्वतो हरियूथपाः । त्वत्प्रियार्थम् कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥७॥
एषाम् हर्षेण जानामि तर्कश्चापि दृढो मम । विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम् ॥८॥
रावनम् पापक्र्माणम् तथा त्वम् कर्तुमर्हसि । सेतुरत्र यथा बद्ध्येथा पश्येम ताम् पुरीम् ॥९॥
तस्य राक्षसराजस्य तथा त्वम् कुरु राघव । दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् ॥१०॥
हतम् च रावणम् उद्धे दर्शनादवधारय । अबद्ध्वा सागरे सेतुम् घोरे च वरुणालये ॥११॥
लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः । सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ॥१२॥
सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय । इमे हि समरे वीरा हरयः कामरूपिणः ॥१३॥
तदलम् विक्लबाम् बुद्धिम् राजन् सर्वार्थनाशनीम् । पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥१४॥
यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलम्ब्यताम् । तदलम्करणायैव कर्तुर्भवति सत्वरम् ॥१५॥
अस्मिन् काले महाप्राज्ञ् सत्त्वमातिष्ठ ते जसा । शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ॥१६॥
विनष्टेवा रनस्स्टे वाशोकः सर्वार्थनाशनः । तत्त्वम् बुद्धिमताम् श्रेष्ठह् सर्वशास्त्रर्थकोविदः ॥१७॥
मद्विधैः सचिवैः सार्धमरिम् जेतुम् समर्हसि । न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ॥१८॥
गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे । वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ॥१९॥
अचिराद्द्रक्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् । तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ॥२०॥
निश्चेष्टाह् क्षत्रिया मन्दाः सर्वे चण्डस्य् बिभ्यति । लङ्घानार्थम् च घोरस्य समुद्रस्य नदीपतेः ॥२१॥
सहास्माभिरिहोओपेतह् सूक्ष्मबुद्धिर्विचारय । लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ॥२२॥
सर्वम् तीर्णम् च मे सैन्यम् जितमित्यवधार्यताम् । इमे हि हरयः शूराः समरे कामरूपिणः ॥२३॥
तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः । कथम् चित्परिपश्यामि लङ्घितम् वरुणालयम् ॥२४॥
हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हण । किमुक्त्वा बहुधा चापि सर्वथा विजया भवान् ॥२५॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे द्वितीयः सर्गः ॥