रामायणम्

अष्टाविंशः सर्गः 6.28

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

सारणस्य वचः श्रुत्वा रावणम् राक्षस अधिपम् । बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत् ॥१॥

स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् । न्यग्रोधान् इव गान्गेयान् सालान् हैमवतीन् इव ॥२॥

एते दुष्प्रसहा राजन् बलिनः काम रूपिणः । दैत्य दानव सम्काशा युद्धे देव पराक्रमाः ॥३॥

एषाम् कोटि सहस्राणि नव पन्च च सप्त च । तथा शन्ख सहस्राणि तथा वृन्द शतानि च ॥४॥

एते सुग्रीव सचिवाः किष्किन्धा निलयाः सदा । हरयो देव गन्धर्वैर् उत्पन्नाः काम रूपिणः ॥५॥

यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव रूपिणौ । मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि ॥६॥

ब्रह्मणा समनुज्ञाताव् अमृत प्राशिनाव् उभौ । आशंसेते युधा लंकाम् एतौ मर्दितुम् ओजसा ॥७॥

यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुन्जरम् । यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः ॥८॥

एषो अभिगन्ता लंकाया वैदेह्यास् तव च प्रभो । एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् ॥९॥

ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः । हनूमान् इति विख्यातो लन्घितो येन सागरः ॥१०॥

काम रूपी हरि श्रेष्ठो बल रूप समन्वितः । अनिवार्य गतिः चैव यथा सततगः प्रभुः ॥११॥

उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः । त्रियोजन सहस्रम् तु अध्वानम् अवतीर्य हि ॥१२॥

आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति । इति संचिन्त्य मनसा पुरा एष बल दर्पितः ॥१३॥

अनाधृष्यतमम् देवम् अपि देव ऋषि दानवैः । अनासाद्य एव पतितो भास्कर उदयने गिरौ ॥१४॥

पतितस्य कपेर् अस्य हनुर् एका शिला तले । किंचिद् भिन्ना दृढ हनोर् हनूमान् एष तेन वै ॥१५॥

सत्यम् आगम योगेन मम एष विदितो हरिः । न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाषितुम् ॥१६॥

एष आशंसते लंकाम् एको मर्दितुम् ओजसा । येव जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै ॥१७॥

लंकायाम् निहितश्चापि कथम् विस्मरसे कसिम् । यः च एषो अनन्तरः शूरः श्यामः पद्म निभ ईक्षणः ॥१८॥

इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः । यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते ॥१९॥

यो ब्राह्मम् अस्त्रम् वेदामः च वेद वेदविदाम् वरः । यो भिन्द्याद् गगनम् बाणैः पर्वतामः च अपि दारयेत् ॥२०॥

यस्य मृत्योर् इव क्रोधः शक्रस्य इव पराक्रमः । यस्य भार्या जन्स्थानात्सीता चापि हृता त्वया ॥२१॥

स एष रामस् त्वाम् योद्धुम् राजन् समभिवर्तते । यः च एष दक्षिणे पार्श्वे शुद्ध जाम्बू नद प्रभः ॥२२॥

विशाल वक्षास् ताम्र अक्षो नील कुन्चित मूर्धजः । एषो अस्य लक्ष्मणो नाम भ्राता प्राण समः प्रियः ॥२३॥

नये युद्धे च कुशलः सर्व शास्त्रभृताम् वरः । अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ॥२४॥

रामस्य दक्षिणो बाहुर् नित्यम् प्राणो बहिः चरः । न हि एष राघवस्य अर्थे जीवितम् परिरक्षति ॥२५॥

एष एव आशंसते युद्धे निहन्तुम् सर्व राक्षसान् । यस् तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति ॥२६॥

रक्षो गण परिक्षिप्तो राजा हि एष विभीषणः । श्रीमता राज राजेन लंकायाम् अभिषेचितः ॥२७॥

त्वाम् एव प्रतिसम्रब्धो युद्धाय एषो अभिवर्तते । यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् ॥२८॥

सर्व शाखा मृग इन्द्राणाम् भर्तारम् अपराजितम् । तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च ॥२९॥

यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् । किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन द्रुमाम् ॥३०॥

दुर्गाम् पर्वत दुर्गस्थाम् प्रधानैः सह यूथपैः । यस्य एषा कान्चनी माला शोभते शत पुष्करा ॥३१॥

कान्ता देव मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता । एताम् च मालाम् ताराम् च कपि राज्यम् च शाश्वतम् ॥३२॥

सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः । शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः ॥३३॥

शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते । शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः ॥३४॥

महाशङ्क्य्सहस्राणाम् शतम् वृन्दमिहोच्यते । शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् ॥३५॥

6.28.35 #65ef169d79e8 timing uncertain

महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते । शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् ॥३६॥

6.28.36 #8caf68cee78c timing uncertain

महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते । शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् ॥३७॥

महाखर्वसहस्राणाम् समुद्रमभिधीयते । शतम् समुद्रसाहस्रमोघ इत्यभिधीयते ॥३८॥

शतमोघसहस्राणाम् महौघ इति विश्रुतः । एवम् कोटि सहस्रेण शन्कूनाम् च शतेन च ॥३९॥

महाशङ्कुसहस्रेण तथा वृन्दशतेन च । महावृन्दसहस्रेण तथा पद्मशतेन च ॥४०॥

महापद्मसहस्रेण तथा खर्वशतेन च । समुद्रेण च तेनैव महुघेन तथैव च ॥४१॥

एष कोटिमहौघेन समुद्रसदृशेन च । विभीषणेन वीरेण सचिवैः परिवारितः ॥४२॥

सुग्रीवो वानर इन्द्रस् त्वाम् युद्ध अर्थम् अभिवर्तते । महाबलवृतो नित्यम् महाबलपराक्रमः ॥४३॥

इमाम् महाराज समीक्ष्य वाहिनीम् । उपस्थिताम् प्रज्वलित ग्रह उपमाम् । ततः प्रयत्नः परमो विधीयताम् । यथा जयः स्यान् न परैः पराजयः ॥४४॥

इत्यार्षे स्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे अष्टाविंशः सर्गः ॥

Listen to the sarga
0:00