ततो नील अम्बुद निभः प्रहस्तो नाम राक्षसः । अब्रवीत् प्राञ्जलिर् वाक्यम् शूरः सेना पतिस्तदा ॥१॥
अष्टमः सर्गः 6.8
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
देव दानव गन्धर्वाः पिशाचपतगौरगाः । न त्वाम् धर्षयितुम् शक्ताः किम् पुनर् वानरा रणे ॥२॥
सर्वे प्रमत्ता विश्वस्ता वन्चिताः स्म हनूमता । न हि मे जीवतो गच्चेज् जीवन् स वन गोचरः ॥३॥
सर्वाम् सागर पर्यन्ताम् सशैल वन काननाम् । करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान् ॥४॥
रक्षाम् चैव विधास्यामि वानराद् रजनी चर । न आगमिष्यति ते दुह्खम् किंचिद् आत्म अपराधजम् ॥५॥
अब्रवीत्तम् सुसम्क्रुद्धो दुर्मुखो नाम राक्षसः । इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम् ॥६॥
अयम् परिभवो भूयः पुरस्य अन्तः पुरस्य च । श्रीमतो राक्षस इन्द्रस्य वानर इन्द्र प्रधर्षणम् ॥७॥
अस्मिन् मुहूर्ते हत्वा एको निवर्तिष्यामि वानरान् । प्रविष्टान् सागरम् भीमम् अम्बरम् वा रसा तलम् ॥८॥
ततो अब्रवीत् सुसम्क्रुद्धो वज्र दम्ष्ट्रो महाबलः । प्रगृह्य परिघम् घोरम् मांस शोणित रूपितम् ॥९॥
किम् नो हनुमता कार्यम् कृपणेन तपस्विना । रामे तिष्ठति दुर्धर्षे सुग्रीवे सह लक्ष्मणे ॥१०॥
अद्य रामम् ससुग्रीवम् परिघेण सलक्ष्मणम् । आगमिष्यामि हत्वा एको विक्षोभ्य हरि वाहिनीम् ॥११॥
इदम् ममापरम् वाक्यम् शृणु राजन्यदीच्चसि । उपायकुशलो ह्येव जयेच्चत्रुनतन्द्रितः ॥१२॥
कामरूपधराः शूराः सुभीमा भीमदर्शनाः । राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥१३॥
काकुत्थ्समुपसम्गम्य बिभ्रतो मानुषम् वपुः । सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥१४॥
प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा । स हि सेनाम् समुत्थाप्य क्षिप्रमेवोपयास्यति ॥१५॥
ततो वयमितस्तुर्णम् शूलशक्तिगदाधराः । चापबाणासिहस्तश्च त्वरितास्तत्र यामहे ॥१६॥
आकाशे गणशः स्थित्वा हत्वा ताम् हरिवाहिनीम् । अश्मशस्त्रमहावृष्ट्वा प्रापयाम् यमक्षयम् ॥१७॥
एवम् चेदुपसर्पेतामनयम् रामलक्ष्मणौ । अवश्यमपनीतेन जहतामेव जीवितम् ॥१८॥
कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् । अब्रवीत् परम कुर्द्धो रावणम् लोक रावणम् ॥१९॥
सर्वे भवन्तस् तिष्ठन्तु महाराजेन सम्गताः । अहम् एको हनिष्यामि राघवम् सह लक्ष्मणम् ॥२०॥
सुग्रीवम् सहनूमन्तम् सर्वांश्चैवात्र वानरान् । ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥२१॥
क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत् । स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगत ज्वराः ॥२२॥
एको अहम् भक्षयिष्यामि तान् सर्वान् हरि यूथपान् । स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥२३॥
अहम् एको हनिष्यामि सुग्रीवम् सह लक्ष्मणम् । स अन्गदम् च हनूमन्तम् रामम् च रण कुन्जरम् ॥२४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये अष्टमः सर्गः ॥