6.65.56ते तस्य घोरं निनदं निशम्य | यथा निनादम् दिवि वारिदस्य | पेतुर्धरण्यां बहवः प्लवम्गा | निकृत्तमूला इव सालवृक्षाः