6.86.35इत्येवमुक्तस्तु तदा महात्मा | विभीषणेनारिविभीषणेन | ददर्श तं पर्वतसंनिकाशं | रथस्थितं भीमबलं दुरासदम्