2.33.4न हि रथ्याः स्म शक्यन्ते गन्तुम् बहु जन आकुलाः | आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम्