6.63.58रमस्व राजन् पिब चाद्य वारुणीम् | कुरुष्व कृत्यानि विनीय दुःखम् | मयाद्य रामे गमिते यमक्षयम् | चिराय सीता वशगा भविष्यति