रामायणम्

पञ्चदशः सर्गः 1.15

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् । लब्धसंज्ञः ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥१॥

इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् । अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥२॥

ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् । जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा ॥३॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥४॥

ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः । अब्रुवन् लोककर्तारं ब्रह्माणं वचनं ततः ॥५॥

भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः । सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥६॥

त्वया तस्मै वरो दत्तः प्रीतेन भगवान् तदा । मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥७॥

उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः । शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥८॥

ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा । अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥९॥

नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः । चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कंपते ॥१०॥

तन्महन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात् । वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥११॥

एवमुक्तः सुरैः सर्वैः चिन्तयित्वा ततोऽब्रवीत् । हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥१२॥

तेन गन्धर्वयक्षाणां देवतानां च रक्षसाम् । अवध्योऽस्मीति वागुक्ता तथेक्तं च तन्मया ॥१३॥

नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदा । तस्मात् स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते ॥१४॥

एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् । देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ॥१५॥

एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः । श्ङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥१६॥

वैनतेयं समारुह्य भास्करस्तोयदं यथा । तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः ॥१७॥

ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः । तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥१८॥

त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया । राज्ञो दशरथस्य त्वमयोध्याधिपतेः विभोः ॥१९॥

धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः । अस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ॥२०॥

विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम् । तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ॥२१॥

अवध्यं दैवतैर्विष्णो समरे जहि रावणम् । स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ॥२२॥

राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते । ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा ॥२३॥

क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः । वधार्थं वयमायातास्तस्य वै मुनिभिः सह ॥२४॥

सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः । त्वं गतिः परमा देव सर्वेषां नः परंतप ॥२५॥

वधाय देवशतॄणां नृणां लोके मनः कुरु । एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुंगवः ॥२६॥

पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥२७॥

भयं त्यजत भद्रं वो हितार्थं युधि रावणम् । सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम् ॥२८॥

हत्वा क्रूरं दुराधर्षं देवर्षीणां भयावहम् । दश वर्ष सहस्राणि दश वर्ष शतानि च ॥२९॥

वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् । एवं दत्वा वरं देवो देवानां विष्णुरात्मवान् ॥३०॥

मानुषे चिन्तयामास जन्मभूमिमथात्मनः । ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम् ॥३१॥

पितरं रोचयामास तदा दशरथं नृपम् । तदा देवर्षिगन्धर्वाः सरुद्राः साप्सरो गणाः । स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥३२॥

तमुद्धतं रावणमुग्रतेजसम् प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् । विरावणं साधुतपस्विकण्टकम् तपस्विनामुद्धर तं भयावहम् ॥३३॥

तमेव हत्वा सबलं सबान्धवम् विरावणं रावणमुग्रपौरुषम् । स्वर्लोकमागच्छ गतज्वरश्चिरम् सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥३४॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पञ्चदशः सर्गः ॥

Listen to the sarga
0:00