अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरंगमे । सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥१॥
चतुर्दशः सर्गः 1.14
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः । अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥२॥
कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः । यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥३॥
प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः । चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः ॥४॥
अभिपूज्य तदा हृष्टाः सर्वे चक्रुर्यथाविधि । प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः ॥५॥
ऐन्द्रश्च विधिवद्दत्तो राजा चाभिषुतोऽनघः । माध्यंदिनं च सवनं प्रावर्तत यथाक्रमम् ॥६॥
तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः । चक्रुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुंगवाः ॥७॥
आह्वयांचक्रिरे तत्र शक्रादीन् विबुधोत्तमान् । ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥८॥
गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः । होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥९॥
न चाहुतमभूत्तत्र स्खलितं वा न किंचन । दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ॥१०॥
न तेष्वहःसु श्रान्तो वा क्षुधितो वापि दृश्यते । नाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥११॥
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते । तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते ॥१२॥
वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च । अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥१३॥
दीयतां दीयतामन्नं वासांसि विविधानि च । इति संचोदितास्तत्र तथा चक्रुरनेकशः ॥१४॥
अन्नकूटाश्च दृश्यन्ते बहवो पर्वतोपमाः । दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ॥१५॥
नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा । अन्नपानैः सुविहितास्तस्मिन्यज्ञे महात्मनः ॥१६॥
अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः । अहो तृप्ताः स्म भद्रं त इति शुश्राव राघवः ॥१७॥
स्वलंकृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन् । उपासते च तानन्ये सुमृष्टमणिकुण्डलाः ॥१८॥
कर्मान्तरे तदा विप्रा हेतुवादान्बहूनपि । प्राहुः स्म वाग्मिनो धीराः परस्परजिगीषया ॥१९॥
दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः । सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥२०॥
नाषडङ्गविदत्रासीत् नाव्रतो नाबहुश्रुतः । सदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ॥२१॥
प्राप्ते यूपोच्छ्रये तस्मिन् षड्बैल्वाः खादिरास्तथा । तावन्तो बिल्वसहिताः पर्णिनश्च तथापरे ॥२२॥
श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा । द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥२३॥
कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः । शोभार्थं तस्य यज्ञस्य कांचनालंकृताभवन् ॥२४॥
एकविंशतियूपास्ते एकविंशत्यरत्नयः । वासोभिरेकविंशद्भिरेकैकं समलंकृताः ॥२५॥
विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः । अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥२६॥
आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः । सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥२७॥
इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः । चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शिल्पकर्मणि ॥२८॥
स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः । गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥२९॥
नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् । उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥३०॥
शामित्रे तु हयस्तत्र तथा जलचराश्च ये । ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥३१॥
पशूनां त्रिशतं तत्र यूपेषु नियतं तदा । अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य च ॥३२॥
कौसल्या तं हयं तत्र परिचर्य समंततः । कृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥३३॥
पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा । अवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥३४॥
होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् । महिष्या परिवृत्त्या च वावातामपरां तथा ॥३५॥
पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः । ऋत्विक् परमसंपन्नः श्रपयामास शास्त्रतः ॥३६॥
धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः । यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥३७॥
हयस्य यानि चांगानि तानि सर्वाणि ब्राह्मणाः । अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः ॥३८॥
प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः । अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ॥३९॥
त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः । चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥४०॥
उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् । कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥४१॥
ज्योतिष्टोमायुषी चैवमतिरात्रौ विनिर्मितौ । अभिजिद्विश्वजिच्चैवमप्तोर्यामो महाक्रतुः ॥४२॥
प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥४३॥
उद्गात्रे च ततोदीचीं दक्षिणैषा विनिर्मिता । अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा ॥४४॥
क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः । ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः ॥४५॥
एवं दत्त्वा प्रहृष्टोऽभूत् श्रीमानिक्ष्वाकुनन्दनः । ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम् ॥४६॥
भवानेव महीं कृत्स्नामेको रक्षितुमर्हति । न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने ॥४७॥
रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप । निष्क्रयं किंचिदेवेह प्रयच्छतु भवानिति ॥४८॥
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् । तत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥४९॥
एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः । गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥५०॥
दशकोटीः सुवर्णस्य रजतस्य चतुर्गुणम् । ऋत्विजश्च ततः सर्वे प्रददुः सहिता वसु ॥५१॥
ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते । ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ॥५२॥
सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् । ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ॥५३॥
जांबूनदं कोटिसंंख्यं ब्राह्मणेभ्यो ददौ तदा । दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् ॥५४॥
कस्मैचिद्याचमानाय ददौ राघवनंदनः । ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः ॥५५॥
प्रणाममकरोत्तेषां हर्षव्याकुलितेन्द्रियः । तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥५६॥
उदारस्य नृवीरस्य धरण्यां पतितस्य च । ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ॥५७॥
पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः । ततोऽब्रवीदृष्यशृंगं राजा दशरथस्तदा ॥५८॥
कुलस्य वर्धनं त्वं तु कर्तुमर्हसि सुव्रत । तथेति च स राजानमुवाच द्विजसत्तमः । भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥५९॥
स तस्य वाक्यं मधुरं निशम्य प्रणम्य तस्मै प्रयतो नृपेन्द्र । जगाम हर्षं परमं महात्मा तं ऋष्यशृङ्गं पुनरप्युवाच ॥६०॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः ॥