रामायणम्

त्रयोदशः सर्गः 1.13

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् । प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥१॥

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च । अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥२॥

यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव । यथा न विघ्नः क्रियते यज्ञांगेषु विधीयताम् ॥३॥

भवान्स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् । वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥४॥

तथेति च स राजानमब्रवीत् द्विजसत्तमः । करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ॥५॥

ततोऽब्रवीत् द्विजान्वृद्धान् यज्ञकर्मसु निष्ठितान् । स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान् ॥६॥

1.13.6 #1f3f35018d7d timing uncertain

कर्मान्तिकान् शिल्पकरान् वर्धकीन् खनकानपि । गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ॥७॥

तथा शुचीन् शास्त्रविदः पुरुषान्सुबहुश्रुतान् । यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥८॥

इष्टका बहुसाहस्री शीघ्रमानीयतामिति । औपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः ॥९॥

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः । भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥१०॥

तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः । आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥११॥

वाजिवारणशलाश्च तथा शय्यागृहाणि च । भटानां महदावास वैदेशिकनिवासिनाम् ॥१२॥

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः । तथा पौरजनस्यापि जनस्य बहुशोभनम् ॥१३॥

दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया । सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥१४॥

न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि । यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥१५॥

तेषामपि विशेषेण पूजा कार्या यथाक्रमम् । ये स्युः संपूजिता सर्वे वसुभिर्भोजनेन च ॥१६॥

यथा सर्वं सुविहितं न किंचित्परिहीयते । तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ॥१७॥

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् । यथेष्टं तत्सुविहितं न किंचित्परिहीयते ॥१८॥

यथोक्तं तत्करिष्यामो न किंचित्परिहास्यते । ततः सुमंत्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥१९॥

निमंत्रयस्व नृपतीन्पृथिव्यां ये च धार्मिकाः । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ॥२०॥

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् । मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् ॥२१॥

तमानय महाभागं स्वयमेव सुसत्कृतम् । पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥२२॥

तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् । सद् वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥२३॥

1.13.23 #05342fd19ee5 timing uncertain

तथा केकयराजानं वृद्धं परमधार्मिकम् । श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय ॥२४॥

अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् । वयस्यं राजसिंहस्य समानय यशस्विनम् ॥२५॥

तथा कोसलराजानं भानुमंतं सुसत्कृतम् । मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥२६॥

प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् । राज्ञः शासनमादाय चोदयस्व नृपर्षभान् । प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ॥२७॥

दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह । सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥२८॥

तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् । एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया ॥२९॥

वसिष्ठवाक्यं तच्छ्रुत्वा सुमंत्रस्त्वरितस्तदा । व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् ॥३०॥

स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् । सुमंत्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ॥३१॥

ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये । सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥३२॥

ततः प्रीतो द्विजश्रेष्ठस्तान्सर्वान्मुनिरब्रवीत् । अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥३३॥

अवज्ञया कृतं हन्याद्दातारं नात्र संशयः । ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥३४॥

बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह । ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥३५॥

उपयाता नरव्याघ्र राजानस्तव शासनात् । मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥३६॥

यज्ञीयं च कृतं सर्वं पुरुषैः सुसमाहितैः । निर्यातु च भवान्यष्टुं यज्ञायतनमन्तिकात् ॥३७॥

सर्वकामैरुपहृतैरुपेतं वै समन्ततः । द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥३८॥

तथा वसिष्ठवचनादृष्यशृङ्गस्य चोभयोः । शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः ॥३९॥

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः । ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥४०॥

यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि । श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ॥४१॥

इति श्री वाल्मिकिरामायणे बालकाण्डे त्रयोदशः सर्गः ॥

Listen to the sarga
0:00