ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे । वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥१॥
द्वादशः सर्गः 1.12
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम् । यज्ञाय वरयामास संतानार्थं कुलस्य च ॥२॥
तथेति च स राजानमुवाच च सुसत्कृतः । संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् ॥३॥
सरव्याश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । ततो नृपोऽब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम् ॥४॥
सुमंत्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः । सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ॥५॥
पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः । ततः सुमंत्रस्त्वरितं गत्वा त्वरितविक्रमः ॥६॥
समानयत्स तान्सर्वान् समस्तान्वेदपारगान् । तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ॥७॥
धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् । मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥८॥
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम । तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ॥९॥
ऋषिपुत्रप्रभावेण कामान्प्राप्स्यामि चाप्यहम् । ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ॥१०॥
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् । ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ॥११॥
संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् । सरव्याश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१२॥
सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् । यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥१३॥
ततः प्रीतोऽभवद्राजा श्रुत्वा तत् द्विजभाषितम् । अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥१४॥
गुरूणां वचनाच्छीघ्रं संभाराः संभ्रियन्तु मे । समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥१५॥
सरयव्याश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । शांतयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥१६॥
शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता । नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ॥१७॥
छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः । विघ्नितस्य हि यज्ञस्य सद्यः कर्ता विनश्यति ॥१८॥
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते । तथा विधानं क्रियतां समर्थाः करणेष्विह ॥१९॥
तथेति च ततः सर्वे मंत्रिणः प्रत्यपूजयन् । पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत ॥२०॥
ततो द्विजास्ते धर्मज्ञमस्तुवन्पार्थिवर्षभम् । अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥२१॥
गतेष्वथ द्विजाग्र्येषु मंत्रिणस्तान्नराधिपः । विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥२२॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥