भूय एव हि राजेन्द्र शृणु मे वचनं हितम् । यथा स देवप्रवरः कथयामेवमब्रवीत् ॥१॥
एकादशः सर्गः 1.11
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । नाम्ना दशरथो राजा श्रीमान्सत्यप्रतिश्रवः ॥२॥
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति । कन्या चास्य महाभागा शांता नाम भविष्यति ॥३॥
पुत्रस्तु सोऽङ्गराजस्य रोमपाद इति श्रुतः । तं स राजा दशरथो गमिष्यति महायशाः ॥४॥
अनपत्योऽस्मि धर्मात्मन् शांताभर्ता मम क्रतुम् । आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च ॥५॥
श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिंत्य च । प्रदास्यते पुत्रवन्तं शांताभर्तारमात्मवान् ॥६॥
प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः । आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥७॥
तं च राजा दशरथो यष्टुकामः कृतांजलिः । ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥८॥
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः । लभते च स तं कामं द्विजमुख्याद्विशांपतिः ॥९॥
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः । वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः ॥१०॥
एवं स देवप्रवरः पूर्वं कथितवान्कथाम् । सनत्कुमारो भगवान्पुरा देवयुगे प्रभुः ॥११॥
स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् । स्वयमेव महाराज गत्वा सबलवाहनः ॥१२॥
सुमंत्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् । अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च ॥१३॥
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः । वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ॥१४॥
अभिचक्राम तं देशं यत्र वै मुनिपुंगवः । आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ॥१५॥
ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम् । ततो राजा यथायोग्यं पूजां चक्रे विशेषतः ॥१६॥
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना । रोमपादेन चाख्यातमृषिपुत्राय धीमते ॥१७॥
सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत् । एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ॥१८॥
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् । शांता तव सुता राजन् सह भर्त्रा विशांपते ॥१९॥
मदीयं नगरं यातु कार्यं हि महदुद्यतम् । तथेति राजा संश्रुत्य गमनं तस्य धीमतः ॥२०॥
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया । ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥२१॥
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया । तावन्योन्यांजलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥२२॥
ननंदतुर्दशरथो रोमपादश्च वीर्यवान् । ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ॥२३॥
पौरेभ्यः प्रेषयामास दूतान्वै शीघ्रगामिनः । क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ॥२४॥
धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम् । ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ॥२५॥
तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा । ततः स्वलंकृतं राजा नगरं प्रविवेश ह ॥२६॥
शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् । ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम् ॥२७॥
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा । यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥२८॥
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः । कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥२९॥
अन्तःपुरस्त्रियः सर्वाः शांतां दृष्ट्वा तथागताम् । सह भर्त्रा विशालाक्षीं प्रीत्यानंदमुपागमन् ॥३०॥
पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः । उवास तत्र सुखिता कञ्चित्कालं सहर्त्विजा ॥३१॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥