रामायणम्

दशमः सर्गः 1.10

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

सुमंत्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा । यथर्ऋष्यशृङ्गस्त्वानीतो येनोपायेन मंत्रिभिः तन्मे निगदितं सर्वं शृणु मे मंत्रिभिः सह ॥१॥

रोमपादमुवाचेदं सहामात्यः पुरोहितः । उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥२॥

ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायसंयुतः । अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च ॥३॥

इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः । पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥४॥

गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः । प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः ॥५॥

श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् । पुरोहितो मंत्रिणश्च तथा चक्रुश्च ते तदा ॥६॥

वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत् । आश्रमस्याविदूरेऽस्मिन्यत्नं कुर्वन्ति दर्शने ॥७॥

ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः । पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात् ॥८॥

न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना । स्त्री वा पुमान्वा यच्चान्यत्सत्त्वं नगरराष्ट्रजम् ॥९॥

ततः कदाचित्तं देशमाजगाम यदृच्छया । विभाण्डकसुतस्तत्र ताश्चापश्यद्वरांगनाः ॥१०॥

ताश्चित्रवेषाः प्रमदा गायंत्यो मधुरस्वरम् । ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥११॥

कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम् । एकस्त्वं विजने घोरे वने चरसि शंस नः ॥१२॥

अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः । हार्दात्तस्य मतिर्जाता ह्याख्यातुं पितरं स्वकम् ॥१३॥

पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः । ऋष्यशृङ्ग इति ख्यातं नामकर्म च मे भुवि ॥१४॥

इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः । करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥१५॥

ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै । तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः ॥१६॥

गतानां तु ततः पूजां ऋषिपुत्रश्चकार ह । इदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः ॥१७॥

प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः । ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः ॥१८॥

अस्माकमपि मुख्यानि फलानीमानि वै द्विज । गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम् ॥१९॥

ततस्तास्तं समालिंग्य सर्वा हर्षसमन्विताः । मोदकान्प्रददुस्तस्मै भक्ष्यांश्च विविधान् शुभान् ॥२०॥

तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते । अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥२१॥

आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च । गच्छन्ति स्मापदेशात्ताः भीतास्तस्य पितुः स्त्रियः ॥२२॥

गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः । अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते ॥२३॥

ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान् । विभाण्डकसुतः श्रीमान्मनसा चिन्तयन्मुहुः ॥२४॥

मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः । दृष्टैव च ततो विप्रमायान्तं हृष्टमानसाः ॥२५॥

उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः । एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन् ॥२६॥

चित्राण्यत्र बहूनि स्युर्मूलानि च फलनि च । तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम् ॥२७॥

श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम् । गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥२८॥

तत्र चानीयमाने तु विप्रे तस्मिन्महात्मनि । ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा ॥२९॥

वर्षेणैवागतं विप्रं विषयं स्वं नराधिपः । प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥३०॥

अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः । वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥३१॥

अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि । शांतां शान्तेन मनसा राजा हर्षमवाप सः ॥३२॥

एवं स न्यवसत्तत्र सर्वकामैः सुपूजितः । ऋष्यशृङ्गो महातेजाः शन्तया सह भार्यया ॥३३॥

इति वाल्मीकिरामायणे अदिकाव्ये बालकाण्डे दशमः सर्गः ॥

Listen to the sarga
0:00