रामायणम्

नवमः सर्गः 1.9

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् । श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् ॥१॥

ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः । सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ॥२॥

ऋषीणां सन्निधौ राजंस्तव पुत्रागमं प्रति । काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥३॥

ऋष्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥४॥

नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् । द्वैविध्यं ब्रहचर्यस्य भविष्यति महात्मनः ॥५॥

लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा । तस्यैवं वर्तमानस्य कालः समभिवर्तत ॥६॥

अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् । एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ॥७॥

अङ्गेषु प्रथितो राजा भविष्यति महाबलः । तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा ॥८॥

अनावृष्ठिः सुघोरा वै सर्वभूतभयावहा । अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ॥९॥

ब्राह्मणान् श्रुतवृद्धांश्च समानीय प्रवक्ष्यति । भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः ॥१०॥

समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् । इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥११॥

वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः । विभाण्डकसुतं राजन् सर्वोपायैरिहानय ॥१२॥

आनाय्य तु महीपाल ऋश्यशृङ्गं सुसत्कृतम् । विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् । प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥१३॥

तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते । केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥१४॥

ततो राजा विनिश्चित्य सह मंत्रिभिरात्मवान् । पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥१५॥

ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः । न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥१६॥

वक्ष्यन्ति चिंतयित्वा ते तस्योपायांश्च तत्क्षमान् । आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥१७॥

एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः । आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ॥१८॥

ऋष्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति । सनत्कुमारकथितमेतावद्व्याहृतं मया ॥१९॥

अथ हृष्टो दशरथः सुमंत्रं प्रत्यभाषत । यथर्ऋष्यशृङ्गस्त्वानीतो विस्तरेण तथोच्यताम् ॥२०॥

इति वल्मीकिरामायणे आदिकाव्ये बालकाण्डे नवमः सर्गः ॥

Listen to the sarga
0:00