रामायणम्

अष्टमः सर्गः 1.8

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तस्य चैवंप्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः ॥१॥

चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः । सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥२॥

स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् । मंत्रिभिः सह धर्मात्मा सर्वैरपि कृतात्मभिः ॥३॥

ततोऽब्रवीदिदं राजा सुमन्त्रं मंत्रिसत्तमम् । शीघ्रमानय मे सर्वान् गुरूंस्तान्सपुरोहितान् ॥४॥

ततः सुमंत्रः त्वरितं गत्वा त्वरितविक्रमः । समानयत्स तान्सर्वान्समस्तान्वेदपारगान् ॥५॥

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । पुरोहितं वशिष्ठं च ये चाप्यन्ये द्विजोत्तमाः ॥६॥

तान्पूजयित्वा धर्मात्मा राजा दशरथस्तदा । इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥७॥

मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् । तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥८॥

तदहं यष्टुमिच्छमि शास्त्रदृष्टेन कर्मणा । कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचिन्त्यताम् ॥९॥

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् । वशिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥१०॥

ऊचुश्च परमप्रीताः सर्वे दशरथं वचः । संभाराः संभ्रियंतां ते तुरगश्च विमुच्यताम् ॥११॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥१२॥

यस्य ते धर्मिकी बुद्धिरियं पुत्रार्थमागता । ततस्तुष्टोऽभवद्राजा श्रुत्वैतद् द्विजभाषितम् ॥१३॥

अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः । संभाराः संभ्रियंतां मे गुरूणां वचनादिह ॥१४॥

समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् । सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१५॥

शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि । शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता । नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥१६॥

छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः । विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥१७॥

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते । तथा विधानं क्रियतां समर्थाः साधनेष्विति ॥१८॥

तथेति चाब्रुवन्सर्वे मंत्रिणः प्रतिपूजिता । पार्थिवेन्द्रस्य तद्वाक्यं यथापूर्वं निशम्य ते ॥१९॥

तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् । अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥२०॥

विसर्जयित्वा तान्विप्रान् सचिवानिदमब्रवीत् । ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् ॥२१॥

इत्युक्त्वा नृपशार्दूलः सचिवान्समुपस्थितान् । विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ॥२२॥

ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयंगमाः । उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ॥२३॥

तासां तेनातिकान्तेन वचनेन सुवर्चसाम् । मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥२४॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे अष्टमः सर्गः ॥

Listen to the sarga
0:00