तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः । मंत्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥१॥
सप्तमः सर्गः 1.7
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः । शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥२॥
धृष्टिर्जयन्तो विजयो सुराष्ट्रो राष्ट्रवर्धनः । अकोपो धर्मपालश्च सुमंत्रश्चाष्टमोऽभवत् ॥३॥
ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ । वशिष्ठो वामदेवश्च मंत्रिणश्च तथापरे ॥४॥
सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः । मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः ॥५॥
एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः । विद्याविनीता ह्रीमंतः कुशला नियतेन्द्रियाः ॥६॥
श्रीमन्तश्च महात्मानः शास्त्रज्ञा धृढविक्रमाः । कीर्तिमन्तः प्रणिहिता यथावचनकारिणः ॥७॥
तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः । क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥८॥
तेषामविदितं किंचित्स्वेषु नास्ति परेषु वा । क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥९॥
कुशला व्यवहारेषु सौहृदेषु परीक्षिताः । प्राप्तकालं यथादण्डं धारयेयुः सुतेष्वपि ॥१०॥
कोशसंग्रहणे युक्ता बलस्य च परिग्रहे । अहितं चापि पुरुषं न हिंस्युरविदूषकम् ॥११॥
वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः । शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥१२॥
ब्रह्म क्षत्रमहिंसन्तस्ते कोशं समपूरयन् । सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥१३॥
शुचीनामेकबुद्धीनां सर्वेषां संप्रजानताम् । नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥१४॥
कश्चिन्न दुष्टस्तत्रासीत्परदाररतो नरः । प्रशांतं सर्वमेवासीद्राष्ट्रं पुरवरं च तत् ॥१५॥
सुवाससः सुवेषाश्च ते च सर्वे शुचिव्रताः । हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥१६॥
गुरोर्गुणगृहीताश्च प्रख्याताश्च पराक्रमे । विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयाः ॥१७॥
अभितो गुणवन्तश्च न चासन् गुणवर्जिताः । सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या संपदान्विताः ॥१८॥
मंत्रसंवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु । नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥१९॥
ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः । उपपन्नो गुणोपेतैरन्वशासद्वसुंधराम् ॥२०॥
अवेक्षमाणश्चारेण प्रजा धर्मेण रक्षयन् । प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन् ॥२१॥
विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसंगरः । स तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम् ॥२२॥
नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः । मित्रवान्नतसामन्तः प्रतापहतकण्टकः । स शशास जगद्राजा दिवं देवपतिर्यथा ॥२३॥
तैर्मंत्रिभिर्मंत्रहिते निविष्टैः वृतोऽनुरक्तैः कुशलैः समर्थैः । स पार्थिवो दीप्तिमवाप युक्तः तेजोमयैर्गोभिरिवोदितोऽर्कः ॥२४॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तमः सर्गः ॥