नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः । पूजयामास धर्मात्मा सहशिष्यो महामुनिः ॥१॥
द्वितीयः सर्गः 1.2
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
यथावत्पूजितस्तेन देवर्षिर्नारदस्तथा । आपृच्छैवाभ्यनुज्ञातः स जगाम विहायसम् ॥२॥
स मुहूर्तं गते तस्मिन्देवलोकं मुनिस्तदा । जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥३॥
स तु तीरं समासाद्य तमसाया महामुनिः । शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥४॥
अकर्दममिदं तीर्थं भरद्वाज निशामय । रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥५॥
न्यस्यतां कलशस्तात दीयतां वल्कलं मम । इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥६॥
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना । प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥७॥
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः । विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम् ॥८॥
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् । ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥९॥
तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः । जघान वैरनिलयो निषादस्तस्य पश्यतः ॥१०॥
तं शोणितपरीताङ्गं वेष्टमानं महीतले । भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥११॥
वियुक्ता पतिना तेन द्विजेन सहचारिणा । ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै ॥१२॥
तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् । ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥१३॥
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः । निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥१४॥
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥१५॥
तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः । शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥१६॥
चिन्तयन्स महाप्राज्ञश्चकार मतिमान्मतिम् । शिष्यञ्चैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ॥१७॥
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥१८॥
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् । प्रतिजग्राह संतुष्टस्तस्य तुष्टोऽभवद्मुनिः ॥१९॥
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि । तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥२०॥
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः । कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥२१॥
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् । उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥२२॥
आजगाम ततो ब्रह्म लोककर्ता स्वयं प्रभुः । चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥२३॥
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः । प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥२४॥
पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः । प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम् ॥२५॥
अथोपविश्य भगवानासने परमार्चिते । वाल्मीकये च ऋषये सन्दिदेशासनं ततः ॥२६॥
ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने । उपविष्टे तदा तस्मिन्साक्षाल्लोकपितामहे ॥२७॥
तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः || पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ॥२८॥
यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् || शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः ॥२९॥
जगावन्तर्गतमना भूत्वा शोकपरायणः || तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुङ्गवम् । श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ॥३०॥
मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती । रामस्य चरितं सर्वं कुरु त्वमृषिसत्तम ॥३१॥
धर्मात्मनो गुणवतो लोके रामस्य धीमतः । वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ॥३२॥
रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः । रामस्य सहसौमित्रे राक्षसानां च सर्वशः ॥३३॥
वैदेह्याश्चापि यद् वृत्तं प्रकाशं यदि वा रहः । तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ॥३४॥
न ते वागनृता काव्ये काचिदत्र भविष्यति । कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ॥३५॥
यावत्स्थास्यन्ति गिरयः सरितश्च महीतले । तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥३६॥
यावद्रामायणकथा त्वत्कृता प्रचरिष्यति । तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ॥३७॥
इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत । ततः सशिष्यो भगवान्मुनिर्विस्मयमाययौ ॥३८॥
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः । मुहुर्महुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥३९॥
समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा । सोऽनुव्याहरणाद् भूयः श्लोकः श्लोकत्वमागतः ॥४०॥
तस्य बुद्धिरियं जाता महर्षेर्भावितात्मनः । कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥४१॥
उदारवृत्तार्थपदैर्मनोरमैः तदास्य रामस्य चकार कीर्तिमान् । समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीर्मुनिः ॥४२॥
तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् । रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ॥४३॥
इति वाल्मिकिरामायणे आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ॥