श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् । व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः ॥१॥
तृतीयः सर्गः 1.3
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
उपस्पृश्योदकं सम्यक् मुनिः स्थित्वा कृताञ्जलिः । प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥२॥
रामलक्ष्मणसीताभी राज्ञा दशरथेन च । सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वतः ॥३॥
हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् । तत्सर्वं धर्मवीर्येण यथावत्सम्प्रपश्यति ॥४॥
स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने । सत्यसंधेन रामेण तत्सर्वं चान्ववेक्षितम् ॥५॥
ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः । पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ॥६॥
तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः । अभिरामस्य रामस्य चरितं कर्तुमुद्यतः ॥७॥
कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् । समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥८॥
स यथा कथितं पुर्वं नारदेन महात्मना । रघुवंशस्य चरितं चकार भगवान्मुनिः ॥९॥
जन्म रामस्य सुमहद् वीर्यं सर्वानुकूलताम् । लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥१०॥
नानाचित्रकथाश्चान्या विश्वामित्रसमागमे । जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥११॥
रामरामविवादं च गुणान्दाशरथेस्तथा । तदाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥१२॥
विघातं चाभिषेकस्य रामस्य च विवासनम् । राज्ञः शोकविलापं च परलोकस्य चाश्रयम् ॥१३॥
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवादं सूतोपावर्तनं तथा ॥१४॥
गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥१५॥
वास्तुकर्म निवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥१६॥
पादुकाग्र्याभिषेकं च नन्द्रिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा ॥१७॥
दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् । अनसूयासमाख्यां च अङ्गरागस्य चार्पणम् ॥१८॥
दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा । शुर्पणख्याश्च संवादं विरुपकरणं तथा ॥१९॥
वधं खरत्रिशिरसोरुत्थानं रावणास्य च । मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥२०॥
राघवस्य विलापं च गृध्रराजनिबर्हणम् । कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥२१॥
शबरीदर्शनं चैव फलमूलाशनं तथा । प्रलापं चैव पम्पायां हनुमद्दर्शनं तथा ॥२२॥
ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥२३॥
वालिप्रमथनं चैव सुगीवप्रतिपादनम् । ताराविलापं समयं वर्षरात्रनिवासनम् ॥२४॥
कोपं राघवसिंहस्य बलानामुपसंग्रहम् । दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनं ॥२५॥
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् । प्रायोपवेशनं चापि सम्पातेश्चापि दर्शनम् ॥२६॥
पर्वतारोहणं चापि सागरस्यापि लङ्घनम् । समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥२७॥
राक्षसीतर्जनं चैव छायाग्राहस्य दर्शनम् । सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥२८॥
रात्रौ लङ्काप्रवेशं च एकस्याथ विचिन्तनम् । आपानभूमिगमनमवरोधस्य दर्शनम् ॥२९॥
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् । अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥३०॥
अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् । राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥३१॥
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च । राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥३२॥
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् । प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥३३॥
राघवाश्वासनं चैव मणिनिर्यातनं तथा । सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् ॥३४॥
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् । विभीषणेन संसर्गं वधोपायनिवेदनम् ॥३५॥
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्| रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥३६॥
वीभीषणाभिषेकं च पुष्पकस्य च दर्शनम् । अयोध्यायाश्च गमनं भरद्वाजसमागमम् ॥३७॥
प्रेषणं वायुपुत्रस्य भरतेन समागमम् । रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् । स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥३८॥
अनागतं च यत्किञ्चिद्रामास्य वसुधातले । तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥३९॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥