प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥१॥
चतुर्थः सर्गः 1.4
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
चतुर्विंशत्सहस्त्राणि श्लोकानामुक्तवानृषिः । तथा सर्गशतान् पञ्च षट् काण्डानि तथोत्तरम् ॥२॥
कृत्वापि तन्महाप्राज्ञः सभविष्यं सहोत्तरम् । चिन्तयामास कोन्वेतत्प्रयुञ्जीयादिति प्रभुः ॥३॥
तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः । अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥४॥
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ । भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ ॥५॥
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥६॥
काव्यं रामायणं कृत्स्न्नं सीतायाश्चरितं महत् । पौलस्त्यवधमित्येवं चकार चरितव्रतः ॥७॥
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् । जातिभिः सप्तभिर्बद्धं तन्त्रीलयसमन्वितम् ॥८॥
रसैः शृंगारकरुणहास्यरौद्रभयानकैः । वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥९॥
तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ । भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रुपिणौ ॥१०॥
रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ । बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथापरौ ॥११॥
तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् । वाचो विधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥१२॥
ऋषीणां च द्विजातीनां साधूनां च समागमे । यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ ॥१३॥
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ । तौ कदाचित्समेतानामृषीणां भावितात्मनाम् । मध्येसभं समीपस्थाविदं काव्यमगायताम् ॥१४॥
तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः । साधु साध्विति तावूचुः परं विस्मयमागताः ॥१५॥
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः । प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ॥१६॥
अहो गीतस्य माधुर्यं श्लोकानां च विशोषतः । चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् ॥१७॥
प्रविश्य तावुभौ सुष्ठु तथा भावमगायताम् । सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा ॥१८॥
एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महर्षिभिः । संरक्ततरमत्यर्थं मधुरं तावगायताम् ॥१९॥
प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ । प्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महायशाः ॥२०॥
अन्यः कृष्णाजिनमदाद्यज्ञसूत्रं तथापरः । कश्चित्कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः ॥२१॥
बृसीमन्यस्तदा प्रादात्कौपीनमपरो मुनिः । ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः ॥२२॥
काषायमपरो वस्त्रं चिरमन्यो ददौ मुनिः । जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः ॥२३॥
यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः । औदुम्बरीं बृसीमन्यः स्वस्ति केचित्तदावदन् ॥२४॥
आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः । ददुश्चैवं वरान्सर्वे मुनयः सत्यवादिनः ॥२५॥
आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् । परं कवीनामाधारं समाप्तं च यथाक्रमम् ॥२६॥
अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ । आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम् ॥२७॥
प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ । रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ॥२८॥
स्ववेश्म चानिय ततो भ्रातरौ स कुशीलवौ । पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ॥२९॥
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः । उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः ॥३०॥
दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ । उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ॥३१॥
श्रूयतामेतदाख्यानमनयोर्देववर्चसोः । विचित्रार्थपदं सम्यग्गायकौ समचोदयत् ॥३२॥
तौ चापि मधुरं रक्तं स्वञ्चितायतनिःस्वनम् । तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ॥३३॥
ह्लादयत्सर्वगात्राणि मनांसि हृदयानि च । श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि ॥३४॥
इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ । ममापि तद् भूतिकरं प्रचक्षते महानुभावं चरितं निबोधत ॥३५॥
ततस्तु तौ रामवचःप्रचोदितावगायतां मार्गविधानसम्पदा । स चापि रामः परिषद्गतः शनैर्बुभूषया सक्तमना बभूव ॥३६॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ॥