सर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुंधरा । प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥१॥
पंचमः सर्गः 1.5
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
येषां स सगरो नाम सागरो येन खानितः । षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥२॥
इक्ष्वाकूणामिदं तेषां रज्ञां वंशे महात्मनाम् । महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥३॥
तदिदं वर्तयिष्यावः सर्वं निखिलमादितः । धर्मकामार्थसहितं श्रोतव्यमनसूयया ॥४॥
कोसलो नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥५॥
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता । मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥६॥
आयता दश च द्वे च योजनानि महापुरी । श्रीमती त्रीणि विस्तीर्णा सुविभक्ता महापथा ॥७॥
राजमार्गेण महता सुविभक्तेन शोभिता । मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥८॥
तां तु राजा दशरथो महाराष्ट्रविवर्धनः । पुरीमावासयामास दिवं देवपतिर्यथा ॥९॥
कवाटतोरणवतीं सुविभक्तान्तरापणाम् । सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः ॥१०॥
सूतमागधसंबाधां श्रीमातीमतुलप्रभाम् । उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥११॥
वधूनाटकसंङ्घैश्च संयुक्तां सर्वतः पुरीम् । उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥१२॥
दुर्गगंभीरपरिखां दुर्गामन्यैर्दुरासदाम् । वाजिवारणसपूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥१३॥
सामन्तराजसंङ्घैश्च बलिकर्मभिरावृताम् । नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥१४॥
प्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम् । कूटागारैश्च सम्पुर्णामिन्द्रस्येवामरावतीम् ॥१५॥
चित्रामष्टापदाकारां वरनारीगणैर्युताम् । सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥१६॥
गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् । शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥१७॥
दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा । नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥१८॥
विमानमिव सिद्धानां तपसाधिगतं दिवि । सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥१९॥
ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् । शब्दवेध्यं च विततं लयुहस्ता विशारदाः ॥२०॥
सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने । हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि ॥२१॥
तादृशानां सहस्रैस्तामभिपूर्णां महारथैः| पुरीमावासयामास राजा दशरथस्तदा ॥२२॥
तामग्निमद्भिर्गुणवद्भिरावृताम् द्विजोत्तमैः वेदषडङ्गपारगैः । सहस्रदैः सत्यरतैर्महात्मभिः महर्षिकल्पैः ऋषिभिश्च केवलैः ॥२३॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचमः सर्गः ॥