रामायणम्

सप्तविंशः सर्गः 1.27

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ तां रजनीमुष्य विश्वामित्रो महायशाः । प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ॥१॥

परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥२॥

देवासुरगणान् वापि सगन्धर्वोरगान्भुवि । यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥३॥

तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः । दण्डचक्रं महद्दिव्यं तव दास्यामि राघव ॥४॥

धर्मचक्रं ततो वीर कालचक्रं तथैव च । विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च ॥५॥

1.27.5 #1b844658aa79 timing uncertain

वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा । अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ॥६॥

1.27.6 #ccfa71069713 timing uncertain

ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् । गदे द्वे चैव काकुत्स्थ मोदकी शिखरी शुभे ॥७॥

प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज । धर्मपाशमहं राम कालपाशं तथैव च ॥८॥

वारुणं पाशमस्त्रं च ददाम्यहमनुत्तमम् । अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ॥९॥

ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा । आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥१०॥

वायव्यं प्रथमं नाम ददामि तव चानघ । अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ॥११॥

शक्तिद्वयं च काकुत्स्थ ददामि तव राघव । कंकालं मुसलं घोरं कापालमथ किङ्किणीम् ॥१२॥

वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः । वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥१३॥

असिरत्नं महाबाहो ददामि नृवरात्मज । गान्धर्वमस्त्रं दयितं मोहनं नाम नामतः ॥१४॥

प्रस्वापनं प्रशमनं दद्मि सौम्यं च राघव । वर्षणं शोषणं चैव संतापनविलापने ॥१५॥

मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा । गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ॥१६॥

पैशाचमस्त्रं दयितं मोहनं नाम नामतः । प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥१७॥

तामसं नरशार्दूल सौमनं च महाबलम् । संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ॥१८॥

सत्यमस्त्रं महाबाहो तथा मायामयं परम् । सौरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥१९॥

सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम् । दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥२०॥

एतान् राम महाबाहो कामरूपान् महाबलान् । गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥२१॥

स्थितस्तु प्राङ्मुखो भूत्वा मुनिवरस्तदा । ददौ रामाय सुप्रीतो मंत्रग्राममनुत्तमम् ॥२२॥

सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् । तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥२३॥

जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः । उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥२४॥

ऊचुश्च मुदिता रामं सर्वे प्रांजलयस्तदा । इमे च परमोदाराः किंकरास्तव राघव ॥२५॥

यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै । ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ॥२६॥

प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना । मनसा मे भविष्यध्वमिति तानभ्यचोदयत् ॥२७॥

ततः प्रीतमना रामो विश्वामित्रं महामुनिम् । अभिवाद्य महातेजा गमनायोपचक्रमे ॥२८॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥

Listen to the sarga
0:00