रामायणम्

अष्टाविंशः सर्गः 1.28

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः । गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥१॥

गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि । अस्त्राणां त्वहमिच्छामि संहारं मुनिपुंगव ॥२॥

एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः । संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः ॥३॥

सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च । प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥४॥

लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभकौ । दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ॥५॥

पद्मनाभमहानाभौ दुन्दुनाभस्वनाभकौ । ज्योतिषं शकुनं चैव नैराश्यविमलावुभौ ॥६॥

यौगंधरविनिद्रौ च दैत्यप्रमधनौ तथा । शुचिबाहुर्महाबाहुर्निष्कलिर्विरुचिस्तथा सार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा ॥७॥

पित्र्यः सौमनसश्चैव विधूतमकरावुभौ । करवीरकरं चैव धनधान्यौ च राघव ॥८॥

कामरूपं कामरुचिं मोहमावरणं तथा । जृंभकं सर्पनाभं च पन्थानवरणौ तथा ॥९॥

कृशाश्वतनयान् राम भास्वरान् कामरूपिणः । प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥१०॥

बाढमित्येव काकुत्स्थ प्रहृष्टेनान्तरात्मना । दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः ॥११॥

केचिदङ्गारसदृशाः केचिद् धूमोपमास्तथा । चन्द्रार्कसदृशाः केचित् प्रह्वांजलिपुटास्तथा ॥१२॥

रामं प्रांजलयो भूत्वाऽब्रुवन् मधुरभाषिणः । इमे स्म नरशार्दूल शाधि किं करवाम ते ॥१३॥

गम्यतामिति तानाह यथेष्टं रघुनन्दनः । मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ॥१४॥

अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् । एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ॥१५॥

स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् । गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥१६॥

किं न्वेतन्मेघसंकाशं पर्वतस्याविदूरतः । वृक्षखण्डमिवाभाति परं कौतूहलं हि मे ॥१७॥

दर्शनीयं मृगाकीर्णं मनोहरमतीव च । नानाप्रकारैः शकुनैर्वल्गुभाषैरलंकृतम् ॥१८॥

निःसृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात् । अनया त्ववगच्छामि देशस्य सुखवत्तया ॥१९॥

सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् । संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥२०॥

तव यज्ञस्य विघ्नाय दुरात्मानो महामुनेः । भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ॥२१॥

रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः । एतत्सर्वं मुनिश्रेष्ट श्रोतुमिच्छाम्यहं प्रभो ॥२२॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे अष्टाविंशः सर्गः ॥

Listen to the sarga
0:00