अथ ताम् रजनीम् तत्र कृतार्थौ राम लक्षणौ । ऊषतुर् मुदितौ वीरौ प्रहृष्टेन अंतरात्मना ॥१॥
त्रिंशः सर्गः 1.31
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
प्रभातायाम् तु शर्वर्याम् कृत पौर्व अह्णिक क्रियौ । विश्वामित्रम् ऋषीम् च अन्यान् सहितौ अभिजग्मतुः ॥२॥
अभिवाद्य मुनि श्रेष्ठम् ज्वलंतम् इव पावकम् । ऊचतुर् परमोदारम् वाक्यम् मधुर भाषिणौ ॥३॥
इमौ स्म मुनि शार्दूल किंकरौ समुपस्थितौ । आज्ञापय मुनिश्रेष्ठ शासनम् करवाव किम् ॥४॥
एवम् उक्ते तयोः वाक्यम् सर्व एव महर्षयः । विश्वामित्रम् पुरस्कृत्य रामम् वचनम् अब्रुवन् ॥५॥
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति । यज्नः परम धर्मिष्ठः तत्र यास्यामहे वयम् ॥६॥
त्वम् चैव नरशार्दूल सह अस्माभिर् गमिष्यसि । अद्भुतम् च धनू रत्नम् तत्र त्वम् द्रष्टुम् अर्हसि ॥७॥
तद्धि पूर्वम् नरश्रेष्ठ दत्तम् सदसि दैवतैः । अप्रमेय बलम् घोरम् मखे परम भास्वरम् ॥८॥
न अस्य देवा न गंधर्वा न असुरा न च राक्षसाः । कर्तुम् आरोपणम् शक्ता न कथंचन मानुषाः ॥९॥
धनुषस्य तस्य वीर्यम् हि जिज्ञासन्तो महीक्षितः । न शेकुर् आरोपयितुम् राजपुत्रा महाबलाः ॥१०॥
तद् धनुर् नरशार्दूल मैथिलस्य महात्मनः । तत्र द्रक्ष्यसि काकुत्स्थ यज्ञम् च परम अद्भुतम् ॥११॥
तद्धि यज्ञ फलम् तेन मैथिलेन उत्तमम् धनुः । याचितम् नर शार्दूल सुनाभम् सर्व दैवतैः ॥१२॥
आयागभूतम् नृपतेः तस्य वेश्मनि राघव । अर्चितम् विविधैः गन्धैः धूपैः च अगुरु गंध्भिः ॥१३॥
एवम् उक्त्वा मुनिवरः प्रस्थानम् अकरोत् तदा । स ऋषि संघः स काकुत्स्थ आमंत्र्य वन देवताः ॥१४॥
स्वस्ति वो अस्तु गमिष्यामि सिद्धः सिद्ध आश्रमात् अहम् । उत्तरे जाह्नवी तीरे हिमवंतम् शिलोच्चयम् ॥१५॥
इति उक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः । उत्तराम् दिशम् उद्दिश्य प्रस्थातुम् उपचक्रमे ॥१६॥
तम् व्रजंतम् मुनिवरम् अन्वगात् अनुसारिणाम् । शकटी शत मात्रम् तु प्रयाणे ब्रह्म वादिनाम् ॥१७॥
मृग पक्षि गणाः चैव सिद्ध आश्रम निवासिनः । अनुजग्मुर् महात्मानम् विश्वामित्रम् तपोधनम् ॥१८॥
निवर्तयामास ततः स ऋसि सन्घः स पक्षिणः । ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१९॥
वासम् चक्रुर् मुनि गणाः शोणा कूले समाहिताः । ते अस्तम् गते दिनकरे स्नात्वा हुत हुताशनाः ॥२०॥
विश्वामित्रम् पुरस्कृत्य निषेदुर् अमित ओजसः । रामो अपि सह सौमित्रिः मुनीम् तान् अभिपूज्य च ॥२१॥
अग्रतो निषसाद अथ विश्वामित्रस्य धीमतः । अथ रामो महातेजा विश्वामित्रम् तपोधनम् ॥२२॥
पप्रच्छ मुनिशार्दूलम् कौतूहल समन्वितः । भगवन् कः नु अयम् देशः समृद्ध वन शोभितः ॥२३॥
श्रोतुम् इच्छामि भद्रम् ते वक्तुम् अर्हसि तत्त्वतः । चोदितो राम वाक्येन कथयामास सुव्रतः । तस्य देशस्य निखिलम् ऋषि मध्ये महातपाः ॥२४॥
इति वाल्मीकि रामायणे आदि काव्ये बाल काण्डे एक त्रिंशः सर्गः ॥