ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः । अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥१॥
द्वात्रिंशः सर्गः 1.32
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स महात्मा कुलीनायां युक्तायां सुमहाबलान् । वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ॥२॥
कुशाम्बं कुशनाभं च अधूर्तरजसं वसुम् । दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥३॥
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः । क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥४॥
कुशस्य वचनं श्रुत्वा चत्वारो लोकसत्तमाः । निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥५॥
कुशाम्बस्तु महातेजाः कौशांबीमकरोत् पुरीम् । कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥६॥
अधूर्तरजसो राम धर्मारण्यं महामतिः । चक्रे पुरवरं राजा वसुर्नाम गिरिव्रजम् ॥७॥
एषा वसुमती नाम वसोस्तस्य महात्मनः । एते शैलवराः पंच प्रकाशन्ते समंततः ॥८॥
सुमागधी नदी रम्या मागधान् विश्रुताययौ । पंचानां शैलमुख्यानां मध्ये मालेव शोभते ॥९॥
धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः । न शेकुरारोपयितुं राजपुत्रा महाबलाः || सैषा हि मागधी राम वसोस्तस्य महात्मनः । पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥१०॥
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् । जनयामास धर्मात्मा घृताच्यां रघुनंदन ॥११॥
तास्तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः । उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥१२॥
गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च राघव । आमोदं परमं जग्मुर्वराभरणभूषिताः ॥१३॥
अथ ताश्चारुसर्वांग्यो रूपेणाप्रतिमा भुवि । उद्यानभूमिमागम्य तारा इव घनान्तरे ॥१४॥
ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः । दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥१५॥
अहं वः कामये सर्वा भार्या मम भविष्यथ । मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥१६॥
चलं हि यौवनं नित्यं मानुषेषु विशेषतः । अक्षय्यं यौवनं प्राप्ता अमर्यश्च भविष्य्थ ॥१७॥
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः । अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥१८॥
अन्तश्चरसि भूतानां सर्वेषां त्वं सुरसत्तम । प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे ॥१९॥
कुशनाभसुताः देवं समस्ता सुरसत्तम । स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥२०॥
मा भूत्सकालो दुर्मेधः पितरं सत्यवादिनम् । अवमन्य स्वधर्मेण स्वयंवरमुपास्महे ॥२१॥
पिता हि प्रभुरस्माकं दैवतं परमं च सः । यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥२२॥
तासां तु वचनं श्रुत्वा हरिः परमकोपनः । प्रविश्य सर्वगात्राणि बभंज भगवान् प्रभुः ॥२३॥
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् । प्रविश्य च सुसंभ्रान्ताः सलज्जाः साश्रुलोचनाः ॥२४॥
स च ता दयिता भग्नाः कन्याः परमशोभनाः । दृष्ट्वा दीनास्तदा राजा संभ्रांत इदमब्रवीत् ॥२५॥
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते । कुब्जाः केन कृताः सर्वा चेष्टन्त्यो नाभिभाषथ । एवं राजा विनिःश्वस्य समाधिं संदधे ततः ॥२६॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥