तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः । शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥१॥
त्रयस्त्रिंशः सर्गः 1.33
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति । अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥२॥
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः । पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥३॥
तेन पापानुबन्धेन वचनं न प्रतीच्छता । एवं ब्रुवंत्यः सर्वाः स्म वायुनाभिहता भृषम् ॥४॥
तासां तु वचनं श्रुत्वा राजा परमधार्मिकः । प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥५॥
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम् । ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥६॥
अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा । दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः ॥७॥
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः । क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः ॥८॥
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् । विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥९॥
मंत्रज्ञो मंत्रयामास प्रदानं सह मंत्रिभिः । देशे काले च कर्तव्यं सदृशे प्रतिपादनम् ॥१०॥
एतस्मिन्नेव काले तु चूली नाम महाद्युतिः । ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥११॥
तपस्यन्तमृषिं तत्र गंधर्वी पर्युपासते । सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥१२॥
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा । उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः ॥१३॥
स च तां कालयोगेन प्रोवाच रघुनंदन । परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥१४॥
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा । उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥१५॥
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः । ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥१६॥
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् । ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥१७॥
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम् । ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥१८॥
स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत्तदा । कांपिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥१९॥
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः । ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥२०॥
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः । ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥२१॥
यथाक्रमम् ततः पाणीन् जग्राह रघुनंदन । ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥२२॥
स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः । युक्ताः परमया लक्ष्म्या बभुः कन्याः शतं तदा ॥२३॥
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः । बभूव परमप्रीतो हर्षं लेभे पुनः पुनः ॥२४॥
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः । सदारं प्रेषयामास सोपाध्यायगणं तदा ॥२५॥
सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम् । यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनंदत । स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥२६॥
इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥