रामायणम्

चतुस्त्रिंशः सर्गः 1.34

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव । अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥१॥

इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् । उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥२॥

पुत्र ते सदृशः पुत्रो भविष्यति सुधार्मिकः । गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥३॥

एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् । जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥४॥

कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः । जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥५॥

स पिता मम काकुत्स्थ गाधिः परमधार्मिकः । कुशवंशप्रसूतोऽस्मि कौशिको रघुनंदन ॥६॥

पूर्वजा भगिनी चापि मम राघव सुव्रता । नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥७॥

सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी । कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥८॥

दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता । लोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम ॥९॥

ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम् । भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनंदन ॥१०॥

सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता । पतिव्रता महाभागा कौशिकी सरितां वरा ॥११॥

अहं हि नियमाद्राम हित्वा तां समुपागतः । सिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा ॥१२॥

एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता । देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥१३॥

गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम । निद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह नः ॥१४॥

निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः । नैशेन तमसा व्याप्ता दिशश्च रघुनंदन ॥१५॥

शनैर्विसृज्यते संध्या नभो नेत्रैरिवावृतम् । नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥१६॥

उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः । ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया ॥१७॥

नैशानि सर्वभूतानि प्रचरंति ततस्ततः । यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥१८॥

एवमुक्त्वा महातेजा विरराम महामुनिः । साधु साध्विति ते सर्वे मुनयो ह्यभ्यपूजयन् ॥१९॥

कुशिकानामयं वंशो महान् धर्मपरः सदा । ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तम ॥२०॥

विशेषेण भवानेव विश्वामित्रो महायशाः । कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव ॥२१॥

मुदितैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः । निद्रामुपागमच्छ्रीमानस्तं गत इवांशुमान् ॥२२॥

रामोऽपि सहसौमित्रिः किंचिदागतविस्मयः । प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥२३॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥

Listen to the sarga
0:00