रामायणम्

पंचत्रिंशः सर्गः 1.35

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः । निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥१॥

सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते । उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥२॥

तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकक्रियः । गमनं रोचयामास वाक्यं चेदमुवाच ह ॥३॥

अयं शोणः शुभजलोऽगाधः पुलिनमण्डितः । कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥४॥

एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् । एष पंथा मयोद्दिष्टो येन यान्ति महर्षयः ॥५॥

एवमुक्त्वा महर्षयो विश्वमित्रेण धीमता । पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥६॥

ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा । जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥७॥

तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् । बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ॥८॥

तस्यास्तीरे तदा सर्वे चक्रुर्वासपरिग्रहम् । ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः ॥९॥

हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः । विविशुर्जाह्नवीतीरे शुभा मुदितमानसाः ॥१०॥

विश्वामित्रं महात्मानं परिवार्य समंततः । विष्टिताश्च यथान्यायं राघवौ च यथा अर्हम् । संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत् ॥११॥

भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् । त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥१२॥

चोदितो रामवाक्येन विश्वामित्रो महामुनिः । वृद्धिं जन्म च गंगाया वक्तुमेवोपचक्रमे ॥१३॥

शैलेन्द्रो हिमवान् राम धातूनामाकरो महान् । तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥१४॥

या मेरुदुहिता राम तयोर्माता सुमध्यमा । नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥१५॥

तस्यां गंगेयमभवज्ज्येष्ठा हिमवतः सुता । उमा नाम द्वितीयाभूत्कन्या तस्यैव राघव ॥१६॥

अथ ज्येष्ठां सुराः सर्वे देवकार्यचिकीर्षया । शैलेन्द्रं वरयामासुर्गंगां त्रिपथगां नदीम् ॥१७॥

ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् । स्वच्छंदपथगां गंगां त्रैलोक्यहितकाम्यया ॥१८॥

प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकांक्षिणः । गंगामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥१९॥

या चान्या शैलदुहिता कन्यासीद्रघुनंदन । उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ॥२०॥

उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् । रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥२१॥

एते ते शैलराजस्य सुते लोकनमस्कृते । गंगा च सरितां श्रेष्ठा उमादेवी च राघव ॥२२॥

एतत्ते सर्वमाख्यातं यथा त्रिपथगामिनी । खं गता प्रथमं तात गतिं गतिमतां वर ॥२३॥

सैषा सुरनदी रम्या शैलेन्द्रतनया तदा । सुरलोकं समारूढा विपापा जलवाहिनी ॥२४॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे पंचत्रिंशः सर्गः ॥

Listen to the sarga
0:00