रामायणम्

षट्त्रिंशः सर्गः 1.36

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ । प्रतिनन्द्य कथां वीरौ ऊचतुर्मुनिपुंगवम् ॥१॥

धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया । दुहितुः शैलराजस्य ज्येष्ठाय वक्तुमर्हसि । विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसंभवम् ॥२॥

त्रीन्पथो हेतुना केन पावयेल्लोकपावनी । कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा ॥३॥

त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता । तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ॥४॥

निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् । पुरा रामकृतोद्वाहः शितिकण्ठो महातपाः ॥५॥

दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे । तस्य संक्रीडमानस्य महादेवस्य धीमतः । शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥६॥

न चापि तनयो राम तस्यामासीत्परंतप । सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः ॥७॥

यदिहोत्पद्यते भूतं कः तत्प्रतिसहिष्यति । अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥८॥

देव देव महादेव लोकस्यास्य हिते रत । सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥९॥

न लोका धारयिष्यन्ति तव तेजः सुरोत्तम । ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥१०॥

त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय । रक्ष सर्वानिमान् लोकान्नालोकं कर्तुमर्हसि ॥११॥

देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः । बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥१२॥

धारयिष्याम्यहं तेजस्तेजस्येव सहोमया । त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१३॥

यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् । धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥१४॥

एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् । यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥१५॥

एवमुक्तः सुरपतिः प्रमुमोच महाबलः । तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥१६॥

ततो देवाः पुनरिदमूचुश्चापि हुताशनम् । आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥१७॥

तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् । दिव्यं शरवणं चैव पावकादित्यसंनिभम् ॥१८॥

यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः । अथोमां च शिवं चैव देवाः सर्षिगणास्तदा ॥१९॥

पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः । अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥२०॥

समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना । यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ॥२१॥

अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ । अद्य प्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥२२॥

एवमुक्त्वा सुरान्सर्वान् शशाप पृथिवीमपि । अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥२३॥

न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता । प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती ॥२४॥

तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा । गमनायोपचक्राम दिशं वरुणपालिताम् ॥२५॥

स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः । हिमवत्प्रभवे शृंगे सह देव्या महेश्वरः ॥२६॥

एष ते विस्तरो राम शैलपुत्र्या निवेदितः । गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः ॥२७॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥

Listen to the sarga
0:00