रामायणम्

सप्तत्रिंशः सर्गः 1.37

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः । सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥१॥

ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् । प्रणिपत्य सुराः राम सेन्द्राः साग्निपुरोगमाः ॥२॥

येन सेनापतिर्देव दत्तो भगवता पुरा । स तपः परमास्थाय तप्यते स्म सहोमया ॥३॥

यदत्रानंतरं कार्यं लोकानां हितकाम्यया । संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥४॥

देवतानां वचः श्रुत्वा सर्वलोकपितामहः । सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥५॥

शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु । तस्या वचनमक्लिष्टं सत्यमेव न संशयः ॥६॥

इयमाकाशगंगा यस्यां पुत्रं हुताशनः । जनयिष्यति देवानां सेनापतिमरिंदमम् ॥७॥

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् । उमायास्तद्बहुमतं भविष्यति न संशयः ॥८॥

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन । प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥९॥

ते गत्वा परमं राम कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥१०॥

देवकार्यमिदं देव समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गंगायां तेज उत्सृज ॥११॥

देवतानां प्रतिज्ञाय गंगामभ्येत्य पावकः । गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥१२॥

इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् । स तस्या महिमां दृष्ट्वा समंतादवकीर्यत ॥१३॥

समंततस्तदा देवीमभ्यषिंचत पावकः । सर्वस्रोतांसि पूर्णानि गंगाया रघुनन्दन ॥१४॥

तमुवाच ततो गंगा सर्वदेवपुरोगमम् । अशक्ता धारणे देव तेजस्तव समुद्धतम् ॥१५॥

दह्यमानाग्निना तेन संप्रव्यथितचेतना । अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ॥१६॥

इह हैमवते पार्श्वे गर्भोऽयं संनिवेश्यताम् । श्रुत्वा त्वग्निवचो गंगा तं गर्भमतिभास्वरम् ॥१७॥

उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ । यदस्या निर्गतं तस्मात्तप्तजांबूनदप्रभम् ॥१८॥

कांचनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् । ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत ॥१९॥

मलं तस्याभवत्तत्र त्रपु सीसकमेव च । तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥२०॥

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरंजितम् । सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम् ॥२१॥

जातरूपमिति ख्यातं तदा प्रभृति राघव । सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् । तृणवृक्षलतागुल्मं सर्वं भवति कांचनम् ॥२२॥

तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः । क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन् ॥२३॥

ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् । ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ॥२४॥

ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् । पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥२५॥

तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे । स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ॥२६॥

स्कंद इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् । कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम् ॥२७॥

प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् । षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥२८॥

गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा । अजयत् स्वेन वीर्येण दैत्यसैन्यगणान्विभुः ॥२९॥

सुरसेनागणपतिमभ्यषिंचन्महाद्युतिम् । ततस्तममराः सर्वे समेत्याग्निपुरोगमाः ॥३०॥

एष ते राम गंगाया विस्तरोऽभिहितो मया । कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च ॥३१॥

भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः । आयुष्मान् पुत्र पौत्रश्च स्कन्दसालोक्यतां व्रजेत् ॥३२॥

इति वाल्मीकिरामायणे आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥

Listen to the sarga
0:00